पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् रागात्मको मुह्यति मैचया हि स्नेहं कफक्षोभ' इवोपयुज्य ॥५६॥ रागोद्धवे चेतसि धैर्य्यमेत्य निषेवितव्यं त्वशुभं निमित्तम् । रागात्मको ह्येवमुपैति शर्म्म कफात्मको रुक्षमिवोपयुज्य ॥ ६ ॥ व्यापाद दोषेण मनस्युदीर्णे न सेवितव्यं त्वशुभं निमित्तम् । द्वेषात्मकस्य ह्यशुभा वधाय पित्तात्मनस्तीक्ष्ण इवोपचारः ॥६१॥ व्यापाददोषक्षुभिते तु चित्ते सेव्या स्वपक्षोपनयेन मैत्री । द्वेषात्मनो हि प्रशमाय मैत्री पित्तात्मनः शीत इवोपचारः ॥ ६ ॥ मोहानुबद्धे मनसः प्रचारे मैचा शुभा चैव भवत्ययोगः । ताभ्यां हि संमोहमुपैति भूयो वाय्वात्मको रुक्षमिवोपनीय ॥६३॥ मोहात्मिकायां मनसः प्रवृत्तौ सेव्यस्विदंप्रत्ययताविहारः । मूढे मनस्येष हि शान्तिमार्गो वाय्यात्मके स्निग्ध इवोपचारः ॥६४ उल्कामुखस्यं हि यथा सुवर्णं सुवर्णकारो धमतीह काले । काले परिप्रोक्षयते जलेन क्रमेण काले समुपेक्षते च ॥६५॥ दहेत्सुवर्णं हि धमन्न काले जले क्षिपन् संशमयेदकाले । न चापि सम्यक् परिपाकमेनं नयेदकाले समुपेक्षमाणः ॥६६॥ संप्रग्रहस्य प्रशमस्य चैव तथैव काले समुपेक्षणस्य । सम्यग् निमित्तं मनसा त्वेक्ष्यं नाशो हि यत्रोऽप्यनुपायपूर्व्वः ॥६७ इत्येवमन्यायनिवर्तनच्च न्यायञ्च तस्मै सुगतो बभाषे । भूयश्च तत्तच्चरितं विदित्वा वितर्कहानाय विधीनुवाच ॥६८॥ यथा भिषक् पित्तकफानिलानां य एव कोप समुपैति दोषः । १ P. L.M..क्षोभय । २P. M. व्यापार.. ३. P..M. को।