पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः १०५ अवैति यो नान्यमवैति तेभ्यः सोत्यन्तिकं मोक्षमवैति तेभ्यः ॥४८॥ क्लेशप्रहाणाय च निश्चितेन कारोऽभ्युयायश्च परीक्षितव्यः । योगोऽप्यकाले ह्यनुपायतश्च भवत्यनर्थाय न तद्गुणाय ॥४६॥ अजातवत्मा यदि गा दुहीत नैवाप्नुयात् क्षीरमकालदोही । कालेऽपि वा स्यान्न पयो लभेत मोहेन शृङ्गाद् यदि गा दुहीत॥५०॥ आार्द्राच्च काष्ठाज्ज्वलनाभिकामो नैव प्रयत्नादपि वह्निमृच्छेत् । काष्ठाच्च शुष्कादपि पातनेन नैवाग्निमाप्नोत्यनुपायपूर्व्वम् ॥५१॥ तद्देशकालो विधिवत्परीक्ष्य योगस्य मात्रामपि चाभ्युपायम् । बलाबले चात्मनि संप्रधार्य्या कार्य्यः प्रयत्नो न तु तद्विरुद्धः ॥५२॥ प्रग्राहकं यत्तु निमित्तमुक्रमुद्धन्यमाने हृदि तन्न सेव्यम् । एवं हि चित्तं प्रशमं न याति (न] वह्निना वह्निरिवेर्य्यमाणः ॥५३॥ समाय [य] त्स्यान्नियनिमित्तं जातोद्ध्वे चेतसि तस्य कालः । एवं हि चित्तं प्रशमं नियच्छत्या(ु) दौर्य्यमाणोऽग्निरिवोदकेन ॥५४॥ शमावहं यत् [नियतं] निमित्तं सेव्यं न तच्चेतसि लीयमाने । एवं हि भूयो लयमेति चित्तमनौर्यमाणोऽग्निरिवाल्पसारः ॥५५॥ प्रग्राहकं यन्नियतं निमित्तं लयं गते चेतसि तस्य कालः । क्रियासमर्थं हि मनस्तदा स्यात् मन्दायमानोऽग्निरिवेन्धनेन औपेक्षिकं नापि निमित्तमिष्टं लयं गते चेतसि सोद्धवे वा। एवं हि तीवं जनयेदनर्थमुपेक्षितो व्याधिरिवातुरस्य ॥५७॥ यस्यादुपेक्षा नियतं निमित्तं साम्यं गते चेतसि तस्य कालः । एवं हि कृत्याय भवेत् प्रयोगो रथो विधेयाश्व इव प्रयातः ॥५८॥ रागोद्धृतव्याकुलितेऽपि चित्ते मैत्रोपसंहारविधिर्न कार्य्यः ।