पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दनन्दं काव्यम् यो व्याधितो व्याधिमवैति सम्यग् व्याधेर्निदानश्च तदौषधञ्च । आरोग्यमाप्नोति हि सोऽचिरेण मित्रैरभिज्ञैरूपचर्य्यमाण: ॥४०॥ तद् व्याधिसंज्ञां कुरु दुःखसत्ये दोषेष्वपि व्याधिनिदानसंज्ञाम् । आरोग्यसंज्ञाञ्च निरोधसत्ये भैषज्य संज्ञामपि मार्गसत्ये ॥४१॥ तस्मात् प्रवृत्तिं परिगच्छ दुःखं प्रवर्त्तकानष्यवगच्छ दोषान् । निवृत्तिमागच्छ च तन्निरोधं निवर्तकञ्चाप्यवगच्छ मार्गम् ॥४२॥ शिरस्यथो वाससि संप्रदीप्ते सत्यावबोधाय मतिर्विचार्य्या । दग्धं जगत् सत्यनयं ह्यदृष्ट्वा प्रदह्यते सम्प्रति धक्ष्यते च ॥४३॥ यदैव यः पश्यति नामरूपं क्षयीति तद्दर्शनमस्य सम्यक् । सम्यक् च निर्वेदमुपैति पश्यन् नन्दीक्षयाच्च क्षयमेति रागः ॥४४॥ तयोश्च नन्दीरजसोः क्षण सम्यग् विमुक्तं प्रवदामि चेतः । सम्यग् विमुक्तिर्मनसश्च ताभ्यां न चास्य भूयः करणीयमस्ति ॥ ४५ ॥ यथास्वभावेन हि नामरूपं तद्धेतुमेवास्तगमं च तस्य । विजानतः पश्यत एव चाहं ब्रवीमि सम्यक् क्षयमास्त्रवाणाम् ॥४६॥ तस्मात् परं सौम्य विधाय वीय्यं शीघ्रं चकास्स्वास्रवसंक्षयाय । दुःखाननित्यांश्च निरात्मकांश्च धातून विशेषेण परीक्षमाणः ॥४७॥ धातून हि षड्भू सलिलानलादीन् सामान्यतः स्वेन च लक्षणेन । § P. M. 1977, P. L. M. f which spoil the metre. २P. L. M. भेष्यय । ३ P. M. सम्मतिवक्षते । 9 P. M. sayfa Tam which spoils the metre. ५ P. M. धातु हि घटक ।