पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

घोडणः सर्गः १०३ अस्याभ्युपायोऽधिगमाय मार्गः प्रज्ञाविकल्पः प्रशमद्विकल्पः । स भावनीयो विधिवद् बुधेन शीले शुचौ त्रिप्रमुखे स्थितेन ॥३०॥ वाक्कर्म्म सम्यक् सहकायकर्म्म यथावदाजीवनयश्च शुद्धः । इदं त्रयं वृत्तविधौ प्रवृत्तं शीलाश्रयं धर्म्मपरिग्रहाय ॥३१॥ सत्येषु दुःखादिषु दृष्टिरार्य्या सम्यग्वितर्कश्च पराक्रमश्च । इदं वयं ज्ञानविधौ प्रवृत्तं प्रज्ञाश्रयं क्लेशपरिक्षयाय ॥३२॥ न्यायेन सत्याभिगमाय युक्ता सम्यक् स्मृतिः सम्यगथो समाधिः । इदं इयं योगविधौ प्रवृत्तं शमाश्रयं चित्तपरियग्रहाय ॥३३॥ क्लेशाङ्कुरान्न प्रतनोति शीलं बीजाङ्कुरान् काल इवातिवृत्तः । शुचौ हि शीले पुरुषस्य दोषा मनः सलज्जा व धर्षयन्ति ॥३४॥ क्लेशांस्तु विष्कम्भयते समाधिर्वेगानिवाद्रिर्महतो नदीनाम् । स्थिते समाधौ हि न धर्षयन्ति दोषा भुजङ्गा व मन्त्रबद्धाः ॥३५॥ प्रज्ञा त्वशेषेण निहन्ति दोषांस्तौरद्रुमान् प्रावृषि निम्नगेव । दग्धा यया न प्रभवन्ति दोषा वज्राग्निनेवानुसृतेन दृक्षाः ॥३६॥ त्रिस्कन्धमेतं प्रविगाह्य मार्ग प्रस्पष्टमष्टाङ्गमहार्यमार्य्यम् । दुःखस्य हेतून् प्रजहाति दोषान् प्राप्नोति चात्यन्तमिवं पदं तत् ॥३७॥ अस्योपचारं घृतिरार्जवञ्च ह्रीरप्रमादः प्रविविक्तता च । अल्पेच्छता तुष्टिरसङ्गता च लोकप्रवृत्ता च रतिः क्षमा च ॥३८॥ याथात्म्यतो विन्दति यो हि दुःखं तस्योद्भवं तस्य च यो निरोधम् । आर्य्येण मार्गेण स शान्तिमेति कल्याणमित्रैः सह वर्तमानः ॥३८॥ १ P. M. drops धे in बुधेन । २ P. M. • पुर।