पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दर नन्दं काव्यम् क्रोधप्रहर्षादिभिराश्रयाणामुत्पद्यते चेह वथा विशेषः । तथैव जन्मस्वपि नैकरूपो निर्वतते क्लेशकृतो विशेषः ॥२१॥ दोषाधिके जन्मनि तीव्रदोष उत्पद्यते रागिणि तीव्ररागः । मोहाधिके मोहबलाधिकश्च तदल्यदोषे च तदल्पदोषः ॥२२॥ फलं हि यादृक् समवैति साक्षात् तदागमो बीज भवेत्यतीतम् । अवैत्य बीजप्रकृतिञ्च साक्षादनागतं तत्फलमभ्युपैति ॥२३॥ दोषक्षयो जातिषु यासु यस्य वैराग्यतस्तासु न जायते सः । दोषाशयस्तिष्ठति यस्य यत्र तस्योपपत्तिर्विवशस्य तत्र ॥२४॥ तज्जन्मनो नैकविधस्य सौम्य तृष्णादयो हेतव इत्यवेत्य । तांश्छिन्धि दुःखाद् यदि निर्मुमुक्षा कार्य्यक्षयः कारणसङ्क्षयाद्धि ॥२५॥ दुःखक्षयो हेतुपरिक्षयाच्च शान्तं शिवं साक्षिकुरुष्व धर्म्मम् । तृष्णाविरागं लयनं निरोधं सनातनं त्राणमहार्य्यवेमार्य्यम् ॥२६॥ यस्मिन्न जाति र्न जरा न मृत्युर्न व्याधयो नाप्रियसम्प्रयोगः । नेच्छाविपन्न प्रियविप्रयोगः क्षमं पदं नैष्ठिकमच्च्युतं तत् ॥२७॥ दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद् विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् ॥२८॥ एवं कृतौ निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काञ्चिद् विदिशं न काञ्चित् क्लेशक्षयात् केवलमेति शान्तिम् ॥२८॥ १P. M. रोषा..T..२P.M.बीजये । ३ P. M. धर्म।