पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः १०१ जरादयो नैकविधाः प्रजानां सत्यां प्रवृत्तौ प्रभवन्त्यनर्थाः । प्रवात्सु घोरेष्वपि मारूतेषु नह्यप्रसूतास्तरवश्वलन्ति ॥१०॥ आकाशयोनिः पवनो यथा हि यथा शमीगर्भशयो हुताश: । आपो यथान्तर्वसुधाशयाश्च दुःखं तथा चित्तशरीरयोनि ॥११॥ अपां द्रवत्वं कठिनत्वमुर्व्या वायोश्चलत्वं ध्रुवमौष्ण्यमग्नेः । यया स्वभावो हि तथा स्वभावो दुःखं शरीरस्य च चेतसश्च ॥१२॥ काये सति व्याधिजरादि दुःखं क्षुत्तर्षवर्षोष्णहिमादि चैव । रूपाश्रिते चेतसि सानुबन्धे शोकारतिकोधभयादि दुःखम् ॥१३॥ प्रत्यक्षमालोक्य च जन्मदुःखं दुःखं तथातीतमपीति विद्धि । यथा च तदुःखमिदञ्च दुःखं दुःखं तथा नागतमप्यथैहि ॥१४॥ बीजस्वभावो हि यथेह दृष्टो भूतोपि भव्योपि तथानुमेयः । प्रत्यक्षतश्च ज्वलनो यथोष्णो भूतोऽपि भव्योपि तथोष्ण एव ॥१५॥ तन्नामरूपस्य गुणनुरूप यचैव निर्वृत्तिरुदारवृत्त । तत्रैव दुःखं न हि तद्विमुक्तं दुःखं भविष्यत्यभवद्भवेद्वा ॥१६॥ प्रवृत्तिदुःखस्य च तस्य लोके तृष्णादयो दोषगणा निमित्तम् । नैवेश्वरो न प्रकृतिर्न कालो नापि स्वभावो न विधिर्यदृच्छा ॥१७॥ ज्ञातव्यमेनेन च कारणेन लोकस्य दोषेभ्य इति प्रवृत्तिः । यस्माद् म्रियन्ते सरजस्तमस्का न जायते वीतरजस्तमस्कः ॥१८॥ इच्छाविशेषे सति तत्र तत्र थानासनादिर्भवति प्रयोगः । यस्मादतस्तर्षवशा(त्] तथैव जन्म प्रजानामिति वेदितव्यम् ॥१८॥ सत्त्वान्यभिष्वङ्गवशानि दृष्ट्वा स्वजातिषु प्रीतिपराण्यतीव । अभ्यासयोगादुपयादितानि तैरेव दो(षै)रिति तानि विद्धि ॥२०॥