पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् षोडशः सर्गः एवं मनोधारणया क्रमेण व्यपोह्य किञ्चित् समुपोह्य किञ्चित् । ध्यानानि चत्वार्य्यधिगम्य योगी प्राप्नोत्यभिज्ञा नियमेन पञ्च ॥१॥ ऋद्धिप्रवेकञ्च बहुप्रकारं परस्य चेतश्चरितावबोधम् । अतीतजन्मस्मरणञ्च दीर्घं दिव्ये विशुद्धे श्रुतिचक्षुषी च ॥२॥ अतःपरं तत्त्वपरीक्षणेन मनो दधात्यास्त्रवसंक्षयाय । ततो हि दुःखप्रभृतीनि सम्यक् चत्वारि सत्यानि पदान्यवैति ॥३॥ बाधात्मकं दुःखमिदं प्रसक्तं दुःखस्य हेतुः प्रभवात्मकोऽयम् । दुःखक्षयो निःशरणात्मकोऽयं बाणात्मकोऽयं प्रशमाय मार्गः ॥४॥ इत्यार्य्यसत्यान्यवबुध्य बुड्या चत्वारि सम्यक् प्रतिबुध्य चैव सर्व्वास्त्रवान् भावनयाभिभूय न जायते शान्तिमवाप्य भूयः ॥५॥ अबोधतो ह्यप्रतिवेधतश्च तत्त्वात्मकस्यास्य चतुष्टयस्य । भवाद्भवं याति न शान्तिमेति संसारदोला मधिरोह्य लोकः ॥६॥ तस्माज्जरादेर्व्यसनस्य मूलं समासतो दुःखमवैहि जन्म । सर्व्वौषधीनामिव भूर्भवाय सर्व्वापदां क्षेत्रमिदं हि जन्म ॥७॥ यज्जन्म रूपस्य हि सेन्द्रियस्य दुःखस्य तन्नैकविधस्य जन्म । यः सम्भवश्चास्य समुच्छ्रयस्य मृत्योश्च रोगस्य च सम्भवः सः ॥८॥ सद्वाप्यसद्वा विषमिश्रमन्नं यथा विनाशाय न धारणाय । लोके तथा तिर्य्यगुपर्य्यधो वा दुःखाय सर्व्वं न सुखाय जन्म ॥८॥ १ P. M. drops त्य। २ P. M. drops ए in दिथे । ३ P. M. रौक्षणे मम । 8 P. M. has दोलाधा । ५ P. M. भुवर्भवाय ।