पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् तस्मान्नायुषि विश्वासं चञ्चले कर्तुमर्हसि । नित्यं हरति कालो हि स्थाविर्य्यं न प्रतीक्षते ॥६२॥ निःशोचं पश्यतो लोकं तोयवुद्दुददुर्ब्बलम् । कस्यामरवितर्को हि स्यादनुन्मत्तचेतसः ॥६३॥ तस्मादेषां वितर्काणां प्रहाणार्थं समासतः । आनापानस्मृतिं सौम्य विषयीकर्त्तुमर्हसि ॥६४॥ इत्यनेन प्रयोगेण काले सेवितुमर्हसि । प्रतिपक्षं वितर्काणां गदानामगदानिव ॥६५॥ सुवर्णहेतोरिव पांशुधावको विहाय पांशून् बृहतो यथादितः । जहाति सूक्ष्मानपि तद्विशुद्धये विशोध्य हेमावयवान्नियच्छति ॥६६॥ विमोक्षहेतोरपि युक्तमानसो विहाय दोषान् बृहतस्तथादितः । जहाति सूक्ष्मानपि तद्विशुद्धये विशोध्य धर्म्मावयवान्नियच्छति ॥६॥ क्रमेणाद्भिः शुद्धं कनकमिह पांशुव्यवहितम् यथाग्नौ कारः पचति भृशमावर्त्तयति च । तथा योगाचारो निपुणमिह दोषव्यवहितम् विशोध्य क्लेशेभ्यः शमयति मनः संक्षिपति च ॥६८॥ १ P..M. नित्य T.. २P. M. विशुद्धये ।