पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः सर्गः 87

अथ कश्चित् वितर्कस्ते भवेदमरणाश्रयः । यनेन स विहन्तव्यो व्याधिरात्मगतो यथा ॥५२॥ मुहूर्तमपि विश्रम्भः कार्य्यों न खलु जीविते । निलीन इव हि व्याघ्रः कालो विश्वस्तघातकः ॥५२॥ बलस्थोऽहं युवा वेति न ते भवितुमर्हति । मृत्युः सर्व्वास्ववस्थासु हन्ति नावेक्षते वयः ॥५४॥ क्षेत्रभूतमनर्थानां शरीरं परिकर्षतः । स्वस्याशा जीविताशा वा न दृष्टार्थस्थ जायते ॥५५॥ निर्वृतः को भवेत्कायं महाभूताश्रयं वहन् । परस्परविरुद्धानामहीनामिव भाजनम् ॥५६॥ प्रश्वमित्ययमन्वक्षं यदुच्छ्सिति मानवः । अवगच्छ तदाश्चर्यमविश्वास्यं हि जीवितम् ॥५॥ इदमाश्चर्यमपरं यत्सुप्तः प्रतिबुध्यते । स्वपित्युत्थाय वा भूयो बहमित्रा हि देहिनः ॥५८॥ गर्भात् प्रभृति यो लोकं जिघांसुरनुगच्छति । कस्तस्मिन् विश्वसेन्मृत्यावुद्यतासावराविव ॥५८ ॥ प्रसूतः पुरुषो लोके श्रुतवान् बलवानपि । न जयत्यन्तकं कश्चिन्नाजयन्नापि जेष्यति ॥ ६ ॥ साम्ना दानेन भेदेन दण्डेन नियमेन वा । प्राप्तो हि रभसो मृत्युः प्रतिहन्तुं न शक्यते ॥६१ ॥ १ P. M. चेति न ते भवितुमईसि ।

  • P. L. M. lacuna, P. M. fhETA T.

२P.M. निरतः। ४P.M. सान्ना। 7