पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६ सौन्दरनन्दं काव्यम् असौ क्षेमो जनपदः सुभिक्षोऽसावसौ शिवः । इत्येवमथ जायेत वितर्कस्तव कश्चन ॥४२॥ प्रहेयः स त्वया सौम्य नाधिवास्थः कथञ्चन । विदित्वा सर्व्वमादीप्तं तैम्तैर्दोषाग्निभिर्जगत् ॥४३॥ ऋतुचक्रविवर्ताच्च क्षुत्पिपासाक्रमादपि । सर्व्वत्र नियतं दुःखं न क्वचिद्विद्यते शिवम् ॥४४॥ क्वचित् शीतं क्वचिद्वर्मः क्वचिद्रोगो भयं क्वचित् । बाधतेऽभ्यधिकं लोके तस्मादशरणं जगत् ॥४५॥ जरा व्याधिश्च मृत्युश्च लोकस्यास्य महद्भयम् । नास्ति देशः स यत्रास्थ तद्भयं नोपपद्यते ॥४६॥ यत्र गच्छति कायोऽयं दुःखं तत्रानुगच्छति । नास्ति काचित् गतिर्लॊके गतो यत्र न बाध्यते ॥४७॥ रमणीयोऽपि देशः सन् सुभिक्षः क्षेम एव च । कुदेश इति विज्ञेयो यच क्लेशेर्विदह्यते ॥४८॥ लोकस्याभ्याहतस्यास्य दुःखैः शारीरमानसैः । क्षेमः कश्चिन्न देशोऽस्ति स्वस्थो यत्र गतो भवेत् ॥ ४६॥ दुःखं सर्व्वच सर्व्वस्य वर्त्तते सर्व्वदा यदा । छन्दरागमतः सौम्य लोकचित्रेषु मा कृथाः ॥५॥ यदा तस्मान्निवृत्तस्ते छन्दरागो भविष्यति । जीवलोकं तदा सर्व्वमादीप्तमिव मंस्यसे ॥५१॥ १P. M. omits नास्ति देशः स यत्रास्य तद्यं ।