पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः सर्गः 95

संसारे कृत्यमाणानां सत्वानां स्वेन कर्मणा । को जनः सुजनः को वा मोहात्सक्तो जने जनः ॥३१॥ अतीतेऽध्वनि संवृत्तः स्वजनो हि जनस्तव । अप्राप्ते चाध्वनि जनः स्वजनस्ते भविष्यति ॥३२॥ विहगानां यथा सायं तत्र तत्र समागमः । जातौ जातौ तथाश्लेषो जनस्य स्वजनस्य च ॥३३॥ प्रतिश्रयं बहुविधं संश्रयन्ति यथाध्वगाः । प्रतियान्ति पुनस्यक्त्वा तद्वत् ज्ञातिसमागमः ॥३४॥ लोके प्रकृतिभिन्नेऽस्मिन् न कश्चित् कस्यचित् प्रियः । कार्य्यकारणसंबद्धं बालुकाभुष्टिवज्जगत् ॥३५॥ बिभर्ति हि सुतं माता धारयिष्यति मामिति । मातरं भजते पुत्रो गर्भेणाधत्त मामिति ॥३६॥ अनुकूलं प्रवर्तन्ते ज्ञातिषु ज्ञातयो यदा । तदा स्नेहं प्रकुर्वन्ति रिपुत्वं तु विपर्य्ययात् ॥३७॥ अहितो दृश्यते ज्ञातिरज्ञातिर्दृश्यते हितः । स्नेहं कार्यान्तराल्लोकछिनत्ति च करोति च ॥३८॥ स्वयमेव यथालिख्य रक्षेचित्रकरः स्त्रियम् । तथा कृत्वा स्वयं स्नेहं सङ्गमेति जने जनः ॥३६॥ योऽभवत् बान्धवजनः परलोके प्रियस्तव । स ते कमर्थं कुरुते त्वं वा तस्मै करोषि कम् ॥४०॥ तस्मात् ज्ञातिवितर्केन मनो नावेष्टुमर्हसि । व्यवस्था नास्ति संसारे स्वजनस्य जनस्य च ॥४१॥