पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् श्रेयसो विघ्नकरणात् भवन्यात्मविपत्तये । पात्रीभावोपघातं तु परभक्तिविपत्तये ॥२१॥ मनः कर्मसु विक्षेप्यमपि वा वस्तुमर्हसि । नत्वेवाकुशलं सौम्य वितर्कयितुमर्हसि ॥२२॥ या त्रिकामोपभोगाय चिन्ता म(न)सि वर्त्तते । न च तं गुणमाप्नोति बन्धनाय च कल्पते ॥२२॥ सखानामुपधाताय परिक्लेशाय वा मनः। मोहं व्रजति कालुय्यं नरकाय च वर्तते ॥२४॥ तद्वितर्कैरकुशलैर्नात्मानं हन्तुमर्हसि । सुशस्त्रं रत्नविकृतं मृद्वतीर्गा खनन्निव ॥२५॥ अनभिज्ञो यथा जात्यं दहेदगुरुकाष्ठवत् । अन्यायेन मनुष्यत्वमुपहन्यादिदं तथा ॥२६॥ त्यक्ता रत्नं यथा लोष्ट्रं रत्नदीपाच्च संहरेत् । त्यक्ता नैःश्रेयसं धर्म्मं चिन्तयेदशुभं तथा ॥२७॥ हिमवन्तं यथा गत्वा विषं भुञ्जीत नौषधम् । मनुष्यत्वं तथा प्राप्य पापं सेवेत नो शुभम् ॥२८॥ तद्दुद्ध्वा प्रतिपक्षेण वितर्क क्षेठुमर्हसि । सूक्ष्मेण प्रतिकीलेन कीलं दावन्तरादिव ॥२८॥ वृद्ध्यवृद्ध्योरथ भवेच्चिन्ता ज्ञातिजनं प्रति । खभावो जौवलोकस्य परीक्ष्यस्तन्निवृत्तये ॥३०॥ १ P. M. वारवस्तुमहसि T. २P. M: मत्वेक. T.