पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः सर्गः ६३ चलानपरिनिष्यन्नानसाराननवस्थितान् । परिकल्पसुखान् कामान् न तान् स्मर्त्तुमिहार्हसि ॥११॥ व्यापादो वा विहिंसा वा क्षोभयेद् यदि ते मनः । प्रसाद्यं तद् विपक्षेण मणिनेवाकुलं जलम् ॥१२॥ प्रतिपक्षस्तयोर्ज्ञेयो यो मैत्री कारुण्यमेव च । विरोधो हि तयोर्नित्यं प्रकाशतमसोरिव ॥१३॥ निवृत्तं यस्य दौःशील्यं व्यापादश्च प्रवर्तते । हन्ति पांशुभिरात्मानं सुस्नात व वारण: ॥१४॥ दुःखितेभ्यो हि मर्त्तेभ्यो व्याधिमृत्युजरादिभिः । आर्य्यः को दुःखमपरं सघृण्णे धातुमर्हति ॥१५॥ दुष्टेन चेह मनसा बाध्यते वा परो न वा । सद्यस्तु दह्यते तावत् स्वंमनो दुष्टचेतसः ॥१६॥ तस्मात् सर्वेषु भूतेषु मैत्री कारुण्यमेव च। न व्यापादं विहिंसां वा विकल्पयितुमर्हसि ॥१७॥ यद्यदेव प्रसक्तं हि वितर्क्कयति मानवः । अभ्यासात् तेन तेनास्य रतिर्भवति चेतसः ॥१८॥ तस्मादकुशलं त्यक्त्वा कुशलं ध्यातुमर्हसि । यते स्थादिह चार्थाय परमार्थस्य चाप्तये ॥१८॥ संवर्धन्ते ह्यकुशला वितर्काः सम्भृता हृदि । अनर्थजनकास्तुल्यमात्मनश्च परस्य च ॥२०॥ १ P. M. विवर्जयति। RP. M. a T.