पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् पञ्चदशः सर्गः यत्र तत्र विविक्ते तु बद्ध्वा पर्य्यङ्कमुत्तमम् । ऋजुं कायं समाधाय स्मृत्याभिमुखयान्वितः ॥१॥ नासाग्रे वा ललाटे वा भ्रुवोरन्तर एव वा । कुर्व्वीथाश्चपलं चित्तमालम्बनपरायणम् ॥२॥ स चेत् कामवितर्कस्त्वां धर्षयेन्मानसो ज्वरः । क्षेप्तव्यो नाधिवास्यः स वस्त्रे रेणुरिवागतः ॥३॥ यद्यपि प्रतिसंख्यानात् कामानुत्सृष्टवानसि । तमांसीव प्रकाशेन प्रतिपक्षेण तान् जहि ॥४॥ तिष्ठत्यनुशयस्तेषां इन्नोऽग्निरिव भस्मना । स ते भावनया सौम्य प्रशाम्योऽग्निरिवाम्बुना ॥५॥ ते हि तस्मात् प्रवर्तन्ते भूयो बीजादिवाकुराः । तस्य नाशेन ते न स्युः बौजनाशादिवाङ्कुराः ॥६॥ अर्ज्जनादीनि कामेभ्यो दृृष्ट्वा दुःखानि कामिनाम् । तस्मात् तान् मूलतश्छिन्धि मित्रसंज्ञानरौनिव ॥७॥ अनित्या मोषधर्म्माणो रिक्ता व्यसनहेतवः । बहसाधारणाः कामाः वर्ज्या ह्याशीविषा दव ॥८॥ ये मृग्यमाणा दुःखाय रक्ष्यमाणा न शान्तये । भ्रष्टाः शोकाय मह्ते प्राप्ताश्च न वितृप्तये ॥६॥ तृप्तिं वित्तप्रकर्षेण स्वर्गावाप्त्या कृतार्थताम् । कामेभ्यश्च सुखोत्पत्तिं यः पश्यति स नश्यति ॥१॥ १ P. M. 'च।