पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः सर्गः ? क्वचिड्भुक्ता यत्तद्वसनमपि यत्तत्परिहितो वसन्नात्मारामः क्वचन विजने योऽभिरमते । कृतार्थः स ज्ञेयः शमसुखरसज्ञः कृतमतिः परेभ्यः संसर्गं परिहरति यः कण्टकमिव ॥५०॥ यदि द्वन्द्वारामे जगति विषयव्यग्रहृदये विविक्ते निर्द्वन्द्वो विहरति कृती शान्तहदयः । ततः पीत्वा प्रज्ञारसममृतवत् तृप्तहृदयो विविक्तः संसक्तं विषयकृपणं शोचति जगत् ॥५१॥ वसन् शून्यागारे यदि सततमेकोऽभिरमते यदि क्लेशोत्पादैः सह न रमते शत्रुभिरिव । चरन्नात्मारामो यदि च पिबति प्रीतिसलिलं ततो भुङ्क्ते श्रेष्ठं चिदशपतिराज्यादपि सुखम् ॥५२॥ सौन्दरनन्दे महाकाव्ये आदिप्रस्थानो नाम चतुर्दशः सर्गः ।