पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

co सौन्दरनन्दं काव्यम् प्रनष्टो यस्य सन्मार्गो नष्टं तस्यामृतं पदम् । प्रनष्टममृतम् यस्य स दुःखान्न विमुच्यते ॥ ४ ४ ॥ तस्माच्चरन् चरोऽस्मीति स्थितोस्मीति च तिष्ठतः । एवमादिषु कालेषु स्मृतिमाधातुमर्हसि ॥४५॥ योगानुलोमं विजनं विशब्दं शय्यासनं सौम्य तथा भजस्व । कायस्य कृत्वा हि विवेकमादौ सुखोऽधिगन्तुं मनसो विवेकः ॥४६॥ अलब्धचेतःप्रशमः सरागो यो न प्रचारं भजते विविक्तंम् । स क्षण्यते ह्यप्रतिलब्धमार्गः चरन्निवीर्व्यां बहुकण्टकायाम् ॥४७॥ अदृष्टतत्वेन परीक्षकेण स्थितेन चित्रे विषयप्रचारे । चित्तं निषेद्धुं न सुखेन शक्यं कृष्टोदका गौरिव सस्यमध्यात् ॥४८॥ अनर्य्यमाणस्तु यथानिलेन प्रशान्तिमागच्छति चित्रभानुः । अल्पेन यत्नेन तथा विविक्ते- वघट्टितं शान्तिमुपैति चेतः ॥४८॥ १ P. M. विमलं ।