पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः सर्गः दक्षिणेन तु पार्श्वेन स्थितया लोकसंज्ञया । प्रबोधं हृदयं कृत्वा शयीथाः शान्तिमानसः ॥३३॥ यामे तृतीये चोत्थाय चरन्नासीन एव वा । भूयो योगं मनःशुद्धौ कुर्व्वीया नियतेन्द्रियः ॥३४॥ अथासनगत(ा]स्था न प्रेक्षितव्या हृतादिषु । सम्प्रजानन् क्रियाः सर्व्वाः स्मृतिमाधातुमर्हसि ॥३५॥ द्वाराध्यक्ष इव द्वारि यस्य प्रणिहिता स्मृतिः । धर्षयन्ति न तं दोषाः पुरं गुप्तमिवारयः ॥३६॥ न तस्थोत्पद्यते क्लेशो यस्य कायगता स्मृतिः । चित्तं सर्व्वास्ववस्थासु बालं धात्रीव रक्षति ॥३७॥ शरव्यः स तु दोषाणां यो हीनः स्मृतिवर्म्मणा । रणस्थः प्रतिशत्रूणां विहीन इव वर्म्मणा ॥३८॥ अनाथं तन्मनो ज्ञेयं यत् स्मृतिर्नाभिरक्षति । निर्णेता दृष्टिरहितो विषयेषु चरन्निव ॥३८॥ अनर्थेषु प्रसक्ताश्च स्वार्थेभ्यश्च पराङ्मुखाः । यद्भये सति नोद्विग्नाः स्मृतिनाशोऽत्र कारणम् ॥४०॥ स्वभूमिषु गुणाः सर्व्वे ये च शीलादयः स्थिताः । विकीर्ण इव गा गोपः स्मृतिस्ताननुगच्छति ॥४१॥ प्रनष्टममृतम् तस्य यस्य विप्रसृता स्मृतिः । हस्तस्थममृतं तस्य यस्य कायगता स्मृतिः ॥४२॥ आर्य्यों न्यायः कुतस्तस्य स्मृतिर्यस्य न विद्यते । घस्वार्य्यॊ नास्ति च न्यायः प्रनष्टस्तस्य सतपथः ॥४३॥