पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् धातुरारम्भधृत्योश्च स्थामविक्रमयोरपि । नित्यं मनसि कार्य्यस्ते बाध्यमानेन निद्रया ॥२२॥ आम्नातव्याश्च विशदं ते धर्म्मा ये परिश्रुताः । परेभ्यश्चोपदेष्टव्याः सञ्चिन्त्याः स्वयमेव च ॥२३॥ प्रक्लेद्यमद्भिर्वदनं विलोक्याः सर्व्वतो दिशः । चार्य्या दृष्टिश्च तारासु जिजागरिषुणा सदा ॥२४॥ अन्तर्गतैरचपले र्वंशस्यायिभिरिन्द्रियैः । अविक्षिप्तेन मनसा चंक्रम्यस्वास्व वा निशि ॥२५॥ भये पीतौ च शोके च निद्रया नाभिभूयते । तस्मान्निद्राभियोगेषु सेवितव्यमिदं त्रयम् ॥२६॥ भयमागमनान्मृत्योः प्रीतिं धर्म्मपरिग्रहात् । जन्मदुःखादपर्य्यन्तात् शोकमागन्तुमर्हसि ॥२७॥ एवमादिः क्रमः सौम्य कार्य्यों जागरणं प्रति । बन्ध्यं हि शयनादायुः कः प्राज्ञः कर्तुमर्हति ॥२८॥ दोषव्यालानतिक्रम्य व्यालान् गृहगतानिव । क्षमं प्राज्ञस्य न स्वप्तुं निस्तितीर्षोर्महद्भयम् ॥२८॥ प्रदीप्ते जीवलोके हि मृत्युव्याधिजरामिभिः । कः शयात निरुद्वेगः प्रदीप्त इव वेश्मनि ॥३०॥ तस्मात् तम इति ज्ञात्वा निद्रां नावेष्टुमर्हसि । अप्रशान्तेषु दोषेषु सशस्त्रेष्विव शत्रुषु ॥३१॥ पूर्व्वयामं त्रियामावाः प्रयोगेनातिनाम्यतु । सेव्या शय्या शरीरस्य विश्रामार्थमतन्द्रिणा ॥३२॥