पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दशः सर्गः चिकित्सार्थं यथा धत्ते व्रणस्यालेपनं व्रणौ । क्षुद्धिधातार्थमाहारस्तद्वत् सेव्यो मुमुक्षुणा ॥११॥ भारस्वोदहनार्थञ्च रथाक्षोऽभ्युह्यते यथा । भोजनं प्राणयात्रार्थं तद्वद्विद्वान्निषेवते ॥१२॥ समभिक्रमणार्थञ्च कान्तारस्य यथाध्वगौ । पुत्रमांसानि खादितां दम्पती भृशदुःखितौ ॥१३॥ एवमभ्यवहर्त्तव्यं भोजनं प्रतिसंख्यया । न भूषार्थं न वपुषे न मदाय न दृप्तये ॥१४॥ धारणार्थं शरीरस्य भोजनं हि विधीयते । उपस्तम्भः पिपतिषो र्दुर्बलस्येव वेश्मनः ॥१५॥ प्लवं यत्नात् यथा कश्चिद् बध्नीयाद् धारयेदपि । न तत्स्नेहेन यावत्तु महौघस्योत्तितौर्षया ॥१६॥ तथोपकरणैः कायं धारयन्ति परीक्षकाः । न तत्स्नेहेन यावत्तु दुःखौघस्य तितीर्षया ॥१७॥ शोचता पौद्यमानेन दीयते शत्रवे यथा । न भक्त्या नापि तर्षेण केवलं प्राणगुप्तये ॥१८॥ योगाचारस्तथाहारं शरीराय प्रयच्छति । केवलं क्षुद्विधातार्थं न रागेण न भक्तये ॥१८॥ मनोधारणया चैव परिणाम्यात्मवानहः । विधूय निद्रां योगेन निशामप्यतिनामयेत् ॥२०॥ हृदि यत् संज्ञिनश्चैव निद्रा प्रादुर्भवेत्तव । गुणवत्संज्ञितां संज्ञां तदा मनसि मा कृथाः ॥२१॥