पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् चतुर्दशः सर्गः अथ स्मृतिकपाटेन पिधायेन्द्रियसंवरम् । भोजने भव म[7] [T]ज्ञो ध्यानायानामयाय च ॥१॥ प्राणापानौ निग्रह्णाति ग्लानिनिद्रे प्रयच्छति । कृतो प्रत्यर्थमाहारो विहन्ति च पराक्रमम् ॥२॥ यथा चात्यर्थमाहा[र]ः कृतोऽनर्थाय कल्पते । उपयुक्तस्तथात्यल्पो न सामर्थ्याय कन्यते ॥३॥ आचर्य द्युतिमुत्साहं प्रयोगं बलमेव च । भोजनं कृतमत्यन्पं शरीरस्थापकर्षति ॥४॥ यथा भारेण नमते लघुनोन्नमते तुला । समा तिष्ठति युक्तेन भोज्येनेयं तथा तनुः ॥५॥ तस्मादन्यवहर्त्तव्यं स्वशक्तिमनुपश्यता । नातिमात्रं न चात्यल्पं मेयं मानवशादपि ॥६॥ अभ्याक्रान्तो हि कायाग्नि र्गुरुणान्नेन शाम्यति । अवच्छन्न इवाल्योऽग्निः सहसा महतेन्धसा ॥७॥ अत्यन्तमपि संहारो नाहारस्य प्रशस्यते । अनाहारो हि निर्व्वाति निरिन्धन इवानलः ॥८॥ यस्मानास्ति विनाहारात् सर्व्वप्राणभृतां स्थितिः । तस्माद्दुय्यति नाहारो विकल्पोऽच तु वार्य्यते ॥६॥ न ह्येकविषयेऽन्यत्र सज्यन्ते प्राणिनस्तथा । अविज्ञाते यथाहारे बोद्धव्यं तत्र कारणम् ॥१०॥