पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोदशः सर्गः 85 कार्य: परमयत्नेन तस्मादिन्द्रियसंवरः । इन्द्रियाणि ह्यगुप्तानि दुःखाय च भवाय च ॥५४॥ कामभोगभोगवद्भिरात्मदृष्टिदृष्टिभिः प्रमादनैकमूर्द्धभिः प्रहर्षलोलजिह्वकैः । इन्द्रियोरगै र्मनोविलश्रयेः स्पृहाविषैः शमागदावृते न(द)ष्टमस्ति यच्चिकित्सयेत् ॥५५॥ तस्मादेषामकुशलकराणामरीणां चक्षुर्घ्राणश्रवणरसनस्पर्शनानाम् । सर्व्वावस्यं भवति नियमाप्रमत्तो मास्मिन्नर्थे क्षणमपि कृथास्त्वं प्रमादम् ॥५६॥ सौन्दरभन्दे महाकाव्ये शीलेन्द्रियजयो नाम त्रयोदशः सर्गः । १ P. M. शमागतादृते नएमस्ति यश्चिकित्सेत् T.