पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् नापनेयं ततः किञ्चित् प्रक्षेप्यं नापि किञ्चन । द्रष्टव्यं भूततो भूतं यादृशञ्च यथा च यत् ॥४४॥ एवं ते पश्यतस्तत्त्वं शश्वदिन्द्रियगोचरे । भविष्यति पदस्थानं नाभिध्यादौर्मनस्ययोः ॥४५॥ अभिध्या प्रियरूपेण हन्ति कामात्मकं जगत् । अरिर्मित्रमुखेनेव प्रियवाक् कलुषाशयः ॥४६॥ दौर्मनस्याभिधानस्तु प्रतिघो विषयाश्रितः । मोहाद् येनानुवृत्तेन परवेह च हन्यते ॥४७॥ अनुरोधविरोधाभ्यां शीतोष्णाभ्यामिवार्द्दितः । शर्म्म नाप्नोति न श्रेयश्चलेन्द्रियमतो जगत् ॥४८॥ नेन्द्रियं विषये तावत् प्रवृत्तमपि सज्जते । यावन्न मनसस्तत्र परिकल्पः प्रवर्तते ॥४६॥ इन्धने सति वायौ च यथा ज्वलति पावकः । विषयात् परिकल्पाच्च क्लेशाग्निर्जायते तथा ॥५॥ अभूतपरिकल्पेन विषयस्य हि बध्यते । तमेव विषयं पश्यन् भृततः परिमुच्यते ॥५१॥ दृष्ठ्वैकं रूपमन्यो हि रज्यतेऽन्यः प्रह्रष्यति । कश्चिद् भवति मध्यस्यस्तत्रैवान्यो घृणायते ॥५२॥ अतो न वि[ष]यो हेतु र्बन्धाय न विमुक्तये । परिकल्पविशेषेण सङ्गो' भवति वा न वा ॥५२॥ १ P. M. संयोग T.