पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोदशः सर्गः न च प्रयाति नरकं शत्रुप्रभृतिभिर्हतः । कृष्यते तत्र निघ्नस्तु चपलैरिन्द्रियैर्हतः ॥३३॥ हन्यमानस्य तैर्दुःखं हार्द्दं भवति वा न वा । इन्द्रियैर्बाध्यमानस्य हार्द्दं शारीरमेव च ॥३४॥ सङ्कल्पविषदिग्धा हि पञ्चेन्द्रियमया[:] शराः । चिन्तापुङ्खा रतिफला विषयाकाशगोचराः ॥३५॥ मनुष्यहरिणान् घ्नन्ति कामव्याधेरिता हृदि । विहन्यन्ते यदि न ते ततः पतन्ति तैः क्षत[:] ॥३६॥ नियमाजिरसंस्थेन धैर्यकार्म्मुकधारिणा । निपतन्तो निर्वाय्यास्ते महता स्मृतिवर्म्मणा ॥३७॥ इन्द्रियाणामुपशमादरीणां निग्रहादिव । सुखं स्वपिति वास्ते वा यत्र तत्र गतोद्धवः ॥३८॥ तेषां हि सततं लोके विषयानभिकाङ्क्षताम् । संविन्नैवास्ति कार्पण्याच्छुनामाशावतामिव ॥३८॥ विषयैरिन्द्रियग्रामो न तृप्तिमधिगच्छति । अजस्रं पूर्यमाणोऽपि समुद्रः सलिलैरिव ॥४०॥ अवश्यं गोचरै(ः] स्वै(ः) स्वैर्वर्त्तितव्यमिहेन्द्रियः । निमित्तं तत्र न पाह्यमनुव्यञ्जनमेव च ॥४१॥ आलोक्य चक्षुषा रूपं धातमात्रे व्यवस्थितः । स्त्री वेति पुरुषो वेति न कल्पयितुमर्हसि ॥४२॥ स. चेत् स्त्रीपुरुषग्राहः क्वचिद् विद्येत कश्चन । शुभतः केशदन्तादीन् नानुप्रस्थातुमर्हसि ॥४३॥