पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दनन्दं काव्यम् मोक्षस्योपनिष सौम्यत् वैराग्यमिति गृह्यताम् । वैराग्यस्थापि संवेगः संविदो ज्ञानदर्शनम् ॥२२॥ ज्ञानस्योपनिषच्चैव समाधिरुपधार्य्यताम् । समाधेरप्युपनिषत् सुखं शारीरमानसम् ॥२३॥ प्रस्त्रध्विः कायमनसः सुखस्योपनिषत्परा । प्रसध्वेरप्युपनिषत् प्रीतिरप्यवगम्यताम् ॥२४॥ तथा प्रीतेरुपनिषत् प्रामोद्यं परमं मतम् । प्रामोद्यस्याप्यहल्लेखः कुकृतेध्वकृतेषु वा ॥२५॥ अविलेखस्य मनमः शीलन्तूपनिषच्छुचि । अतः शौले नवत्ययंयमिति शौलं विशोधय ॥२६॥ शीलनात् शीलमित्युक्तं शीलनात् सेवनादपि । सेवनात्तन्निदेशाच्च निर्द्देशश्च तदाश्रयात् ॥२७॥ शीलं हि शरणं सौम्य कान्तार व देशिकः । मित्रं बन्धुश्च रक्षा च धनञ्च बलमेव च ॥२८॥ यतः शीलमतः सौम्य शीलं संस्कर्त्तुमर्हसि । एतत् स्थानमथान्ये च मोक्षारम्भेषु योगिनाम् ॥२८॥ ततः स्मृतिमधिष्ठाय चपलानि स्वभावतः । इन्द्रियाणीन्द्रियार्थभ्यो निवारयितुमर्हसि ॥३०॥ भेतव्यं न तथा शत्रो नार्खे र्नाहेर्नत्ताशनेः । इन्द्रियेभ्यो यथा स्वेभ्यस्तैरजस्रं हि हन्यते ॥३१॥ द्विषद्भिः शत्रुभिः कश्चित् कदाचित् पीद्यते न वा । इन्द्रियैर्बाध्यते सर्व्वः सर्वत्र च सदैव च ॥३२॥ .