पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोदशः सर्गः १ प्रयोगः कायवचसोः शुद्धो भवति ते यथा । उत्तानो विवृतो गुप्तोऽनवक्द्रिस्तथा कुरु ॥११॥ उत्तानो भावकरणात् विकृतश्चाप्यगूहनात् । गुप्तो रक्षणतात्पर्य्यांदच्छिद्रश्चानवद्यतः ॥१२॥ श(री]रवचसोः शुद्धौ सप्ताङ्गे चापि कर्मणि । आजीवसमुदाचारं शौचात् संस्कर्त्तुमर्हसि ॥ १३॥ दोषाणां कुहनादीनां पञ्चानामनिषेवणात् । त्यागाच्च ज्योतिषादीनां चतुर्णां वृत्तिघातिनाम् ॥१४॥ प्राणिधान्यधनादीनां वर्ज्ज्यानामप्रतिग्रहात् । भैक्ष्याङ्गानां निस्सृष्टानां नियतानां प्रतिग्रहात् ॥१५॥ परितुष्टः शुचिर्मञ्जुश्चौक्षया जीवसम्पदा । कुर्य्याद्दुःखप्रतीकारं यावदेव विमुक्रये ॥१६॥ कर्म्मणो हि यथा दुष्टात् कायवाक्प्रभवादपि । आजीवः पृथगेवोक्तो दुःशोधत्वादयं मया ॥१७॥ गृहस्थेन हि दुःशोधा वृष्टि र्विविधदृृष्टिना । आजीवो भिक्षुणा चैव परेष्टायत्तवृत्तिना ॥१॥ एतावच्छीलमित्युक्तमाचारोयं समासतः । अस्य नाशेन नैव स्यात् प्रव्रज्या न इह स्थिता ॥१८॥ तस्माच्चारित्रसम्पन्नो ब्रह्मचर्य्यमिदं चर । अणुमात्रेश्ववद्येषु भयदर्शी दृृढवतः ॥२०॥ शीलमास्थाय वर्त्तन्ते सर्व्वा हि श्रेयसि क्रियाः । स्थानाद्यानीव कार्य्याणि प्रतिष्ठाय वसुन्धराम् ॥२१॥ 6