पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् त्रयोदशः सर्गः अथ संराधितो नन्दः श्रद्धां प्रति महर्षिणा । परिषिक्तोऽमृतेनेव युयुजे परया मुदा ॥१॥ कृतार्थमिव तम् मेने संबुद्धः श्रद्धया तया । मेने प्राप्तमिव श्रेयः स च बुद्धेन संस्कृतः ॥२॥ लक्ष्योन वचसा कांश्चित् कांश्चित् परुषया गिरा। कांश्चिदाभ्यामुपायाभ्यां स विनिन्ये विनायकः ॥३॥ पांशुभ्यः काञ्चनं जातं विशद्धं निर्मलं शुचि । स्थितं पांशुष्ुवपि यथा पांशदोषै र्न लिप्यते ॥४॥ पद्मपर्णं यथा चैव जले जातं जले स्थितम् । उपरिष्टादधस्ताद् वा न जलेनोपलिप्यते ॥५॥ तद्वल्लोके मुनिर्जातो लोकस्यानुग्रहं चरन् । कृतित्वान्निर्मलत्वाच्च लोकधर्म्मै र्न लिप्यते ॥६॥ श्लेषं त्यागं प्रियं रुक्षं कथाञ्च ध्यानमेव च । मन्त्रकाले चिकित्सार्थं चक्रे नात्मानुवृत्तये ॥७॥ अतश्च सन्दधे कायं महाकरुण्या तया । मोचयेयं कथं दुःखात् सत्वानौत्यनुकम्पकः ॥८॥ अथ संहर्षणान्नन्दं विदित्वा भाजनौकृतम् । अब्रवीद् ब्रुवतां श्रेष्ठः क्रमज्ञः श्रेयसां क्रमम् ॥६॥ अतः प्रभृति भूयस्त्वं श्रद्धेन्द्रियपुरःसरः । अमृतस्याप्तये सौम्य वृत्तं रक्षितुमहसि ॥१०॥