पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

79 द्वादशः सर्गः व्याकुलं दर्शनं यस्य दुर्ब्बलो यस्य निश्श्यः । तस्य पारिप्लवा श्रद्धा न हि कृत्याय वर्तते ॥४२॥ यावत्तत्त्वं न भवति हि दृष्टं श्रुतं वा तावच्छ्रद्धा न भवति बलस्था स्थिरा वा । दृष्टे तत्वे नियमपरिभूतेन्द्रियस्य श्रद्धावृक्षो भवति सफलश्वाश्रयश्च ॥ इति सौन्दरनन्दे महाकाव्ये प्रत्यवमर्शों नाम द्वादशः सर्गः ॥ 1