पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दर नन्दं काव्यम् सत्यां गमनबुद्धौ हि गमनाय प्रवर्तते । शय्याबुद्धौ च शयनं स्थानबुद्धौ तथा स्थितिः ॥३२॥ अन्तर्भूमिगतं ह्यम्भः अद्दधाति नरो यदा । अर्थित्वे सति यत्नेन तदा खनति गामिमाम् ॥२३॥ नार्थोौ यद्यग्निना वा स्यात् अद्दध्यात्तु न वारणौ । मथ्नौयान्नारणिं कश्चित् तद्भावे सति मथ्यते ॥३४॥ सस्योत्पत्तिं यदि न वा अद्दध्यात् कर्षकः क्षितौ । अर्थो सस्येन वा न स्याद् बीजानि न वपेद्भुवि ॥३५॥ अतश्च हस्त इत्युक्ता मया श्रद्धा विशेषतः । यस्माद् गृह्णाति सद्धर्म्मा दायं हस्त इवाक्षतः ॥३६॥ प्राधान्यादिन्द्रियमिति स्थिरत्वाद् बलमित्यतः । गुणदारिद्रयशमनाद् धनमित्यभिवर्णिता ॥३७॥ रक्षणार्थेन धर्म्मास्य तथेषीकेत्युदाहृता । लोकेऽस्मिन् दुर्लभत्वाच्च रत्नमित्यभिभाषिता ॥३८॥ पुनश्च बीजमित्युक्ता निमित्तं श्रेयसो यदा । पावनार्थेन पापस्य नदीत्यभिहिता पुनः ॥३॥ यस्माद्धर्म्मस्य चोत्पत्तौ श्रद्धा कारणमुत्तमम् । मयोक्ता कार्यातस्तस्मात् तत्र तत्र तथा तथा ॥४॥ श्रद्धाङ्कुरमिमं तस्मात् संवर्द्धयितुमर्हसि । तहृद्धौ वर्द्धते धर्म्मो मूलवृद्धौ यथा द्रुमः ॥४१॥ १ P. M. . चौके।