पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वादशः सर्गः ७७ अद्य ते सफलं जन्म लाभोऽद्य सुमहांस्तव । यस्य कामरसज्ञस्य नैष्कमर्योत्सुकं मनः ॥२१॥ लोकेऽस्मिन्नालयारामे निवृत्तौ दुर्ल्लभा रतिः । व्यथन्ते ह्यपुनर्भावात् प्रपातादिव बालिशाः ॥२२॥ दुःखं न स्यात् सुखं मे स्यादिति प्रयतते जनः । अत्यन्तदुःखोपरमं सुखं तच्च न बुध्यते ॥२३॥ अरिभूतेष्वनित्येषु सततं दुःखहेतुषु । कामाहिषु जगत सक्तं न वेत्ति सुखमव्ययम् ॥२४॥ सर्वदुःखापहं तत्तु हस्तस्यममृतं तव । विषं पीत्वा यदगदं समये पातुमिच्छसि ॥२५॥ अनर्हसंसारभयं मानार्हं ते चिकीर्षितम् । रागाग्निस्तादृशो यस्य धर्म्मोन्मुखपराङ्मुखः ॥२६॥ रागोद्दामेन मनसा सर्व्वथा द्रष्टुराधृतिः । सदोषं सलिलं दृष्ट्वा पथिकेन पिपासुना ॥२७॥ ईदृशी नाम बुद्धिस्ते निरुद्धा रजसाऽभवत् । रजसा चण्डवातेन विवस्वत इव प्रभा ॥२८॥ सा जिघांसुस्तमो हार्द्दं या संप्रति विजृम्भते । तमो नैशं प्रभा सौरौ विनिगीर्णेव मेरुणा ॥29॥ युक्तरूपमिदञ्चैव शुद्धसत्वस्य चेतसः । यत्ते स्यान्नैष्ठिके सूक्ष्म श्रेयसि श्रद्दधानता ॥३०॥ धर्म्मच्छन्दमिमं तस्माद् विवर्द्धयितुमर्हसि । सर्व्वधर्म्मा हि धर्म्मज्ञ नियमाच्छन्दहेतवः ॥३१॥