पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७६ सौन्दरनन्दं काव्यम् न तु कामात्मनस्तस्य केनचित् जगृहे धृतिः । त्रिषु कालेषु सर्वेषु निपातोऽस्तिरिय स्मृतः ॥१०॥ खेलगामौ महाबाहु र्गजेन्द्र दइव निर्मदः । सोभ्यगच्छद् गुरूं काले विवक्षुर्भावमात्मनः ॥११॥ प्रणम्य च गुरौ मूर्ध्ना बाष्पव्याकुललोचनः । कृत्वाञ्जलिमुवाचेदं ह्रिया किञ्चिदवाङ्मुखः ॥ १२॥ अप्सर प्राप्तये यन्मे भगवन् प्रतिभूरसि । नापारोभिर्ममार्थोऽस्ति प्रतिभूत्वं त्यजाम्यहम् ॥१३॥ श्रुत्वा ह्यावर्त्तकं स्वर्गं संसारस्य च चित्रताम् । न मर्त्यषु न देवेषु प्रवृत्तिर्मम रोचते ॥१४॥ यदि प्राप्य दिवं यत्नानियमेन दमेन च । अविलप्ताः पतन्त्यन्ते स्वर्गाय त्यागिने नमः ॥१५॥ अतश्च निखिलं लोकं विदित्वा सचराचरम् । सर्वदुःखक्षयकरे त्वद्धर्म्म परभे रमे ॥१६॥ तस्माद् व्याससमासाभ्यां तन्मे व्याख्यातुमर्हसि । यच्छ्रुत्वा शृण्वताम् श्रेष्ठ परमं प्राप्नुयां पदम् ॥१७॥ ततस्तस्याशयं ज्ञात्वा विपक्षाणौन्द्रियाणि च । श्रेयश्चैवामुखीभूतं निजगाद तथागतः ॥१८॥ अहो प्रत्यवमर्शोऽयं श्रेयसस्ते पुरोजवः । अरण्यां मथ्यमानायामग्नेर्धूम इवोत्थितः ॥१६॥ चिरमुन्मार्गविहतो लोलैरिन्द्रियवाजिभिः । अवतीर्णोऽसि पन्थानं दिष्टया दृश्याऽविमूढया ॥२०॥