पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वादशः समः 94 द्वादशः सर्गः अपारोमृतको धर्माञ्चरसौत्यथ चोदितः । आनन्देन तदा नन्दः परं व्रीडमुपागमत् ॥१॥ तस्य व्रीडेन महता प्रमोदो हृदि नाभवत् । अप्रामोद्येन विमुखं नावतस्ये व्रते मनः ॥२॥ कामरागप्रधानोऽपि परिहाससमोऽपि सन् । परिपाकगते हेतौ न स तन्ममृषे वचः ॥३॥ अपरीक्षकभावाच्च पूर्व्वं मत्वा दिवं ध्रुवम् । तस्मात् क्षिष्णुं परिश्रुत्य भृशं संवेगमौयिवान् ॥४॥ तस्य स्वर्गात् निववृते सङ्कल्याश्वो मनोरथः । महारथ दूवोन्मार्गादनमत्तस्य सारथेः ॥५॥ स्वर्गतर्षान्निवृत्तश्च सद्यः स्वस्थ इवाभवत् । मृष्टादपथ्याद्विरतो जिजीविषुरिवातुरः ॥ ६॥ विसस्मार प्रियां भार्य्यामप्सरोदर्शनाद् यथा । तथा नित्यतयोद्विग्रस्तत्याजापरसोऽपि सः ॥७॥ महतामपि भूतानामावृत्तिरिति चिन्तयन् । संवेगाञ्च सरागोऽपि वीतराग इवाभवत् ॥८॥ बभूव सहि संवेगः श्रेयसस्तस्य वृद्धये । 'धातोरधिरिवाख्याते पठितोऽक्षरचिन्तकैः ॥६॥ १ P. L. M. धातु ।