पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् अन्तर्जालगताः प्रमत्तमनसो मौनास्तडागे यथा जानन्ति व्यसनं निरोधजनितं स्वस्थाश्चरन्त्यम्भसि । अन्तर्लोकगताः कृतार्थमतयस्तद्वद्दिवि ध्यायिनो मन्यन्ते शिवमच्युतं ध्रुवमिति स्वं स्थानमावर्त्तकम् ॥६१॥ तज्जन्मव्याधिमृत्युव्यसनपरिगतं मत्वा जगदिदं संसारे भ्राम्यमानं दिवि नृषु नरके तिर्यकपितृषु च । यत्ताणं निर्भयं यत् शिवममरमजरं निःशोकममृतम् तद्धेतोर्ब्रह्मचर्य्यं चर जहिहि चलं स्वर्गं प्रति रुचिम् ॥६॥ इति सौन्दरनन्दे महाकाव्ये स्वर्गापवादो नाम एकादशः सर्गः ॥