पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः सर्गः किं पुनः पततां स्वर्गाद्देवान्तसुखसेविनाम् ॥५१॥ रजो गृहाति वासांसि म्लायन्ति परमा[ः)स्त्रजः । गात्रेभ्यो जायते स्वेदो रतिर्भवति नाशनी ॥५२॥ एतान्यादौ निमित्तानि च्युतौ स्वर्गाद्दिवौकसाम् । अनिष्टानीव मर्त्यानामरिष्टानि मुमूर्षताम् ॥५३॥ सुखमुत्पद्यते यञ्च दिवि कामानुपाश्नताम् । त(य)च्च दुःखं निपततां दुःखमेवावशिष्यते ॥५४॥ तस्मादस्वन्तमत्राण(णा)मविश्वास्यमतर्पकम् । विज्ञाय क्षयिणं स्वर्गमपवर्गे मतिं कुरु ॥५५॥ अशरीरं भवाय्यं हि गत्वापि मुनिरुद्रकः । कर्मणोऽन्ते च्युतस्तस्मात् तिर्यग्योनिं प्रपत्स्यते ॥५६॥ मैचया सप्तवार्षिक्या ब्रह्मलोकमितो गतः । सुनेत्रः पुनरावृत्तो गर्भवासमुपेयिवान् ॥५॥ यदा चैश्वर्यवन्तोपि क्षयिणः स्वर्गवासिनः । को नाम स्वर्गवासाय क्षिष्णवे स्पृहयेद्बुधः ॥५८॥ सूत्रेण बद्धोहि यथा विहङ्गो व्यावर्त्तते दूरगतोपि भूयः । अज्ञानसूत्रेण तथावबद्धो गतोपि दूरं पुनरेति लोकः ॥५६॥ कृत्वा' कालविलक्षणं प्रतिभुवा मुक्तो यथा बन्धनाद् भुक्त्वा वेश्मसुखान्यतीत्य समयं भूयो विभेद् बन्धनम् । तद्वद् द्यां प्रतिभूवदात्मनियमे ध्यानादिभिः प्राप्तवान् काले कर्मषु तेषु भुक्तविषयेष्वाकृष्यते गां पुनः ॥६॥ १P. M. कृत्वार्थ T.