पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् तस्य भुक्रवतः स्वर्गे विषयानुत्तमानपि । भ्रष्टस्यार्त्तस्य दुःखेन किमास्वादः करोति सः ॥४१॥ श्येनाय प्राणिवात्सल्यात् स्वमांसान्यपि दत्तवान् । शिविः स्वर्गात् परिभ्रष्टस्तादृक् कृत्वापि दुय्करम् ॥४२॥ शक्रस्यार्द्धासनं गत्वा पूर्व्वपार्थिव एव यः । स देवत्वं गतः काले मान्धाताधः पुनर्ययौ ॥४३॥ राज्यं कृत्वापि देवानां पपात नहुषो भुवि । प्राप्तः किल भुजङ्गत्वं नाद्यापि परिमुच्यते ॥४४॥ तथैव दिविडो राजा राजवृत्तेन संस्कृतः । स्वर्गं गत्वा पुनर्भ्रष्टः कूर्म्मोभूतः किलार्णवे ॥४५॥ भूरिद्युम्नो ययातिश्च एते चान्ये नृपर्षभाः । कर्मभिर्द्यामभिक्रीय तत्क्षयात्पुनरत्यजत् ॥ ४६॥ असुराः पूर्वदेवास्तु सुरैरपहृतश्रियः । श्रियं समनुशोचन्तः पातालं शरणं ययुः ॥४७॥ किञ्च राजर्षिभिस्तावदसुरैर्वा सुरादिभिः । महेन्द्राः शतशः पेतुर्माहात्म्यमपि न स्थिरम् ॥४८॥ संसदं शोभयित्वैन्द्रौमुपेन्द्रश्चण्डविक्रमः । क्षौणकर्म्मा पपातोर्व्वो मध्यादपारसां रसन् ॥४८॥ हा चैत्ररथ हा वापि हा मन्दाकिनि हा प्रिये । इत्यार्त्ता विलपन्तोपि गां पतन्ति दिवौकसः ॥५०॥ तीव्रं ह्युत्पद्यते दुःखं धौमतां यन्मुमूर्षताम् । १ P. M. हिमतावत् T.