पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः सर्गः ७१ हृदि कामाग्निना दीप्ते कायेन वहतो व्रतम् । किमिदं ब्रह्मचर्य्यं ते मनसाऽब्रह्मचारिणः ॥३०॥ संसारे वर्त्तमानेन यदा चाप्सरसस्त्वया । प्राप्ताम्वक्ताश्च शतशस्ताभ्यः किमिति ते स्पृहा ॥३१॥ तृप्तिर्नास्तौन्धनैरग्ने र्नाम्भसा लवणाम्भसः । नापि कामेव्यतृप्तस्य तस्मात् कामा न तृप्तये ॥३२॥ अतृप्तौ च कुतः शान्तिरशान्तौ च कुतः सुखम् । असुखे च कुतः प्रौतिरपौतौ च कुतो रतिः ॥३३॥ रिरंसा यदि ते तस्मादध्यात्मे धीयतां मनः । प्रशान्ता चानवद्या च नास्त्यध्यात्मसमा रतिः ॥३४॥ न तत्र कार्य्यं तूर्य्यैस्ते न स्त्रीभिर्न विभूषणैः । एकस्त्वं यत्र तत्रस्थस्तथा रत्याभिरंस्यसे ॥३५॥ मानसं बलवद्दुःखं तर्ष तिष्ठति तिष्ठति । तं तर्ष क्विन्धि दुःखं हि तृष्णा नास्ति च नास्ति च ॥३६॥ सम्पत्तौ वा विपत्तौ वा दिवा वा नक्तमेव वा । कामेषु हि सतृषस्य न शान्तिरुपपद्यते ॥३०॥ कामानां प्रार्थना दुःखा प्राप्तौ तृप्ति र्न विद्यते । वियोगाग्नियतः शोको वियोगश्च ध्रुवो दिवि ॥३८॥ कृत्वापि दुष्करं कर्म्म स्वर्ग लब्ध्वापि दुर्लभम् । नृलोकं पुनरेवैति प्रवासात् खग्टहं यथा ॥३६॥ यथा भ्रष्टस्य कुशलं शिष्टं किञ्चित्र विद्यते । तिर्य्यक्षु पितृलोके वा नरके वोपपद्यते ॥४॥