पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्द काव्यम् यदि तावदिदं सत्यं वक्ष्याम्यत्र यदौषधम् । औद्धत्यमथ वक्तृणामभिधास्यामि तद्रुजः ॥२०॥ लक्षणपूर्वमथो तेन हृदि सोऽभिहतस्तदा । ध्यात्वा दीर्घं निशश्वास किञ्चिच्चावाङ्मुखोऽभवत् ॥२१॥ ततस्तस्येङ्गितं ज्ञात्वा मनःसंकल्पस्सूचकम् । बभाषे वाक्यमानन्दो मधुरोर्कमप्रियम् ॥२२॥ आकारेणावगच्छामि तव धर्म्मप्रयोजनम् । यज्ज्ञात्वा त्वयि जातं मे हास्वं कारुण्यमेव च ॥२३॥ यथासनाथं स्कन्धेन कश्चिद् गुर्व्वी' शिलां वहेत् । तद्वत् त्वमपि कामार्थं नियमं वोढुमुद्यतः ॥२४॥ तिताडविषया दृष्टो यथा मेषोऽपसर्पति । तद्वदब्रह्मचर्य्याय ब्रह्मचर्य्युमिदं तव ॥२५॥ चिक्रीषन्ति यथा पण्यं वणिजो लाभलिप्सया। धर्म्मचर्य्या तव तथा पण्यभूता न शान्तये ॥२६॥ यथा फलविशेषार्थं बीज वपति कर्षकः । तद्वद्विषयकार्पण्यात् विषयांस्तक्तवानसि ॥२०॥ आकाङ्क्षेच्च यथा रोगं प्रतीकारसुखेमथा । दुःखमन्विच्छति भवान् तथा विषयतृष्णया ॥२८॥ यथा पश्यति मध्येव न प्रपातमवेक्षते । पश्यत्यारसस्तदद् ,भ्रंशमन्ते न पश्यसि ॥२८॥ १P. L. M. मध्ये M. P. मभ्येव ।