पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः सर्गः अभिवक्रस्य कामेषु रागिणो विषयात्मनः । यदियं संविदुत्पन्ना नेयमन्येन हेतुना ॥१०॥ व्याधिरल्पेन यत्नेन मृदुः प्रतिनिवार्यते । प्रबल: प्रबलैरेव यत्नैर्नश्यति वा न वा ॥११॥ दुर्हरो मानसो व्याधिर्बलवांश्च तवाभवत् । विनिवृत्तो यदि स ते सर्व्वथा धृतिमानसि ॥१२॥ दुष्करं साधनार्य्येण मानिना चैव मार्दवम् । अतिसर्गश्च लुब्धेन ब्रह्मचर्यञ्च रागिणा ॥१३॥ एकस्तु मम सन्देहस्तवास्था नियमे धृतौ । अत्रानुनयमिच्छामि वक्तव्यं यदि मन्यसे ॥१४॥ आर्ज्जवाभिहितं वाक्यं न च गन्तव्यमन्यथा । रुक्षमप्याशये शुद्धे रुक्षतां नैति सज्जनः ॥१५॥ अप्रियं हि हितं स्निग्धमस्निग्धमहितं प्रियम् । दुर्लभ तु प्रियहितं स्वादु पथ्यमिवौषधम् ॥१६॥ विश्वासश्चार्थचर्य्या च सामान्यं सुखदुःखयोः । मर्षणं प्रणयश्चैव मित्रवृतिरियं सताम् ॥१७॥ तदिदं त्वां विवक्षामि प्रणयान्न जिघांसया। लच्छ्रेयो हि विवक्षा मे यते नार्हान्युपेक्षितम् ॥१८॥ अमरोभृतको धर्म्मं चरमोत्यभिधीयसे । किमिदं भूतमाहोस्वित् परिहासोऽयमीदृशः ॥१८॥ P. L. M. TTATI