पृष्ठम्:सौन्दरनन्दकाव्यम्.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौन्दरनन्दं काव्यम् एकादशः सर्गः ततस्ता योषितो दृष्ट्वा नन्दो नन्दनचारिणोः । बबन्ध नियमस्तम्भे दुर्दमं चपलं मनः ॥१॥ सोऽनिष्टनैष्कर्यरसो मानतामरसोपमः । चचार विरसो धर्म्मं निवेश्यापारमों हृदि ॥२॥ तथा लोलेन्द्रियो भूत्वा दयितेन्द्रियगोचरः । इन्द्रियार्थवशादेव बभूव नियतेन्द्रियः ॥३॥ कामचर्यासु कुशलो भिक्षुचर्य्यासु विक्लवः । परमाचार्यविष्टब्धो ब्रह्मचर्यं चचार सः ॥४॥ संवृतेन च शान्तेन तीव्रेण मदनेन च । जलाग्न्यो'रिव संसर्गात् शशाम च शुशोष च ॥५॥ स तावद् दर्शनीयोऽपि वैरूप्यमगमत् परम् । चिन्तयामरसाञ्चैव नियमेनायतेन च ॥६॥ प्रस्तावेष्वपि भार्य्यांयाः प्रियभाय्यंस्तथापि सः । वीतराग इवातस्थौ न जहर्ष न क्षुक्षुभे ॥७॥ तं व्यवस्थितमाज्ञाय भार्य्यारागात् पराङ्मुखम् अभिगम्याब्रवीत् नन्दमानन्दः प्रणयादिदम् ॥८॥ अहो सदृशमारब्धं श्रुतस्वाभिजनस्य च । निगृहीतेन्द्रियः स्वस्थो नियमे यदि संस्थितः ॥८॥ । P. M. * T. २P. M. शुभास T.