पृष्ठम्:सूक्तिसंग्रहः.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यत्र स्मृतेऽपि नारीणां निर्वृतिं लभते मनः ।
स दर्पकोपमानानां सीमापुरुष उच्यते ॥ २२ ॥
स एव केवलः कर्णः श्रेयानङ्गेषु शस्यते ।
यः कुण्डलस्य वहनात्यागेनैव प्रकाशते ॥ २३ ॥
गम्भीरं यत्प्रसन्नं च धनिनां मानसं महत् ।
द्विजानामुंपकाराय शुचिना केन निर्मितम् ॥ २४ ॥
कर्णलङ्घिगुणोत्कर्षा वदान्या धन्विनो यथा ।
निष्फलान्न विमुञ्चन्ति मार्गणान्समितौ स्थिताः ॥ २५ ॥
शक्तः शब्द इवैकः स्यात्साधुश्रुतिपदे स्थितः ।
सदध्याहारपूर्णस्य स्वार्थस्य प्रतिपादने ॥ २६ ॥

इत्ति कविराक्षसकृतौ सूक्तिसंग्रहे सुराजपद्धतिः प्रथमा समाप्ता॥१॥


द्वितीया पद्धतिः ।

उदयं प्राप्य तीक्ष्णत्वाद्दुःप्रेक्ष्यत्वमुपेयुषः ।
पादान्तिके वसुमतो नहि मानी निषीदति ॥ १ ॥
अनुवेलं निहन्यन्ते यस्य सिन्धोरिवोद्यमाः ।
तं प्रमथ्य श्रियं कोऽपि विपक्षो भूभृदुद्धरेत् ॥ २ ॥
आक्रम्य यस्य दोर्दण्डमरिचक्रं प्रकाशते ।
प्राप्नोति पुरुषो लोके स वैकुण्ठ इति प्रथाम् ॥ ३ ॥
अभावमीश्वरस्यापि कोदण्डेन निवारयेत् ।
प्राप्नोति विजयश्लाघां नरः पौरुषमाश्रितः ॥ ४ ॥
बलिना विद्विषे पुंसे पदं दीयेत चेद्भुवि ।
महत्त्वं प्राप्य स्वल्पोऽपि विक्रमेण श्रियं हरेत् ॥ ५ ॥
स्वस्थानादवरोप्येत बलात्पुंसा परेण यः ।
अपारिजातं न प्राहुः पार्थिवं पादपं च तम् ॥ ६ ॥
विरसप्रकृतिर्भूपः सत्त्ववानपि सिन्धुवत् ।
राज्ञा स्वान्तसमुत्थेन क्षोभ्यते मृदुनापि सः ॥ ७ ॥