पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/92

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे भगणाध्यायः Y\S क्षिप्यते तत्तु तस्मिन्नेव पततीति तदिदं मतं समीचीनमेवेति चतुर्वेदाचार्येण स्वी कृतम्। भूभ्रमणवेगसञ्जातवायोभूवायुश्च प्रबल इति। ईहशभूमिशक्तिकल्पना गौर वादेव वृद्धवैशिष्ठमतं वृद्धायेंण स्वीकृतम्।

  • उदयास्तमयनिमित्तं नित्यं प्रवहेण वायुना क्षिप्तः । लङ्कासमपश्चिमगो भपञ्जरः सग्रहो भ्रमेंति ।

सौरे तु नक्षत्राणां ग्रहाणाञ्च पराञ्शूाभिमुखुगमुने प्रवह एव कारणं वक्तव्यम् । प्रवहारूंयो२ मरुत्वांस्तु स्वोच्चाभिमुखेमीरयेत् । इत्यनेन 'व्योम्नि यान्त्यनिलाहुता' इत्यादिना च प्रवहस्यैवू कारणत्वृाभूि धानात् । तत्र यद्युच्येत प्रवहस्य सर्वास्वपि कक्षासु तुल्यैव प्रेरणेति तदा मिथो न्यूनाधिका पश्चिमगतिनोंत्पद्यते । ग्रहाणां स्वशक्त्या पूर्वगत्यनङ्गीकारात् । अथ वक्तव्यं प्रवहप्रेरणाॐ तुल्यैव । यस्योपरिकक्षा तस्य बिम्बं लघु यस्याधस्तात्तस्य बृहदत । लघु स्वल्पकालेन बृहन्महता४ कालेनापकृष्यते तस्मात् संज्ञाऽघटीत्ि न्यूनाधिका गतिरिति तदप्ययुक्तम् । यस्योपरि कक्षा तस्य बिम्बं लघ्विति नियमाः भावात् । अाग्रहशीलत्वमात्मनो गणितकर्मणाऽपि दूरीकरोत्वायुष्मान् । तस्माच्छ न्याद्यधः कक्षासु वायुप्रेरणा मन्दा मन्दतरेति स्वीकार्यं सौरतन्त्रदक्षैः । स्वशक्त्या पूर्वगतिवादिनो मते यथा नाडीमण्डलगत्या पूर्वतो न गच्छति किन्तु क्रान्तिवृतगत्या । तथैवात्र मते नाडीमण्डलगत्या पराशाभिमुखं न याति किन्तु तत्तत्क्षणावच्छिन्नाहो। रात्रगत्या तत्तत्कक्षावच्छिन्नवाय्वंशेन' स स ग्रही नीयत इति द्युरात्रवृत्तक्रान्तिः वृत्तयोरन्तररूपयाम्योत्तरगतौ६ च किञ्चिद्बाधकमस्ति । पूर्वं यस्मिन् प्रदेशे ग्रहस्तस्मिन् ग्रहं जित्वा गतवत्यपि योऽन्यः क्रान्तिमण्डलप्रदेशो ग्रहोपरि भवति तस्मिन्नेव ग्रह इति न किञ्चिद्विरुद्धम् । मण्डलान्तरत्वेन° समन्तात् क्रान्तिवृत्तस्य स्थितत्वात् एवं प्रवहवायुना पराशाभिमुखं नीयमाने यदोच्चदेवता पराशाभिमुखं नयति प्रशिथिल रश्मिना च ग्रहमाकर्षति तदा भूमेरासन्नो वक्री च भवति । नक्षत्र ( म ? ) तीत्य ग्रहस्याग्रतो गतत्वात् । यदा च शुक्रादेस्तात्कालिकस्पष्टगतिद्विकलातुल्यशनिगते. न्यूनाऽपि भवति तदाऽपि शनिकक्षाधः स्थितत्वमेव शुक्रादिकक्षाणां भवन्तो मन्यन्ते । तथैव नक्षत्रमतिक्रम्य गच्छतोऽपि ग्रहस्य नक्षत्रकक्षाधः स्थितत्वमेव वदाम इति सवं निरवद्यम् । अस्मिन् मते [ *ग्रहनक्षत्रबिम्बानां परिधिव्यासभिन्नत्वेऽपि गुरुत्वसाध्य स्वीकृत्य तत्तत्कक्षासु प्रवहप्रेरणावैषम्यं वदन्ति । अन्ये तु प्रवह] प्रेरणा सर्वकक्षास्वपि तुल्येति स्वीकृत्य ग्रहनक्षत्रबिम्बानां परिधिव्यासभिन्नत्वेऽपि कक्षाधः क्रमेण बिम्बः गुरुत्वं *लोहपित्तलपिण्डयोरपि वाञ्छन्ति । नक्षत्रात्तथैव स्वक्त्यैव पराशाभिमुख यातीत्यत्र पक्षेऽपि दोषाभावः । ब्रह्मगुप्तमतानुयायिनस्तु सर्वास्वपि कक्षासु प्रवहप्रेरणातुल्यत्वं बिम्बगुरुत्वतुल्यत्वञ्च स्वीकृत्य नक्षत्रापेक्षया ग्रहस्य नित्योदयबिलम्बे ** १. आर्यभ० सि० ४ पा० १०श्लो० ॥ २. सू० सि० स्प० ३श्लो० । ३ प्रवाह क ख ग पु० ४. वृहता काले ग पु० । ५. वारवेशेन ग पु० । ६. पुत्रवृत्त ग पु० । ७. लाकारत्वेन ग पु० । ८. अयमंशो ग पु० नास्ति । ९, पिंड तूलपि० । १०. बिलम्बो क ख विल चो ग पु० ।