पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/91

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ सिद्धान्तशिरोमणौ ग्रहगणिते यावन्ताऽन्तरेणापकृष्यते तादृक् तस्य मान्दं * शीघ्रं वा फलमुत्पद्यते । तत्र मन्दोच्चवशेन मन्दफलं शीघ्रोच्चेन शीघ्रफलम् । भूगर्भाद्दूरतरस्थितयोच्चदेवतया वातरश्मिभिर्नद्धा यदा स्वाभिमुखमपकृष्यन्ते तदा ग्रहा: 2स्वकक्षामण्डलादूध्र्व दूर 3 गच्छन्ति । यदा च प्रशिथिलरशिमभिराकृष्यन्ते तदा स्वीयकक्षामण्डलादधो गच्छन्ति । एवमुच्चदेवतया आकृष्टो ग्रहः प्रवहेन पराशाभिमुखं गच्छन्नपि यावन्नक्षत्रेण शीघ्रतरगतिना अतिक्रम्यते तावती तस्य स्पष्टा गतिः । वृद्धवशिष्ठमतानुसरता जिष्णुजेन नक्षत्राणां *ग्रहाणाञ्च पश्चिमगतिः प्रवहवशेन स्वशक्तया च ग्रहाणां पूर्वेव गतिरित्युक्तम् । न यावनं पावनमस्ति यस्म्ादार्यं तथार्याः खलु नूाद्रियन्ते । न गौरवात् सौरमतं श्रयन्ते वाशिष्ठमस्माल्लघुयुक्तियुक्तम् । अस्मन्मते' प्रवहवाय्वाधारं ६ भचक्रतं नियतगतिना प्रवहेनैव पराशाभिमुखं नीयते। यथा° तेन वायुना गगने नीयमानं तृणादि वायुप्रवाहदिश्येवान्तरिक्षे याति वाय्वाधारत्वाच्च भूमौ न पतति तद्वद् भचक्रमपीत्यर्थः । वायोरन्तरिक्षगत्वं तिर्यक्* चलनञ्च f त्र कल नूद्युतुपूराशाभिमुखगमनमा कल्पनीयम् । पश्चिमदिग्गतिवायुप्रवहनिबद्धे ) भपञ्जरे शीघ्रम् । भ्रमति सखचरे सत्यंपि खेटा गतितः प्रयान्ति पूर्वदिशम् ॥ इति यवनमते तूर्ध्वगस्य सजीवाकाशस्य मूक्तिमतोऽन्तरिक्षस्थितत्वं मूक्तिमदाधारं विना अनुपपद्यमानं मूर्तिमदाधारं कल्पयति । १°तस्याप्याधारकल्पनायामनवस्थाभयादूर्ध्वगस्याकाशस्यान्तरिक्षस्थितत्वं शक्त्यैवेति मन्तव्यम् । तस्य नियतपराशाभिमुखगमनशक्तिकल्पनेति शक्तिद्वयम् । 'अकृल्सकल्पना च भचक्राधारभूत स्याकाशस्य च काचमण्यादिवत्`२ । स्वच्छत्वकल्पनाऽपि`3 गौरवमावहतीत्याद्या दोषाः वर्त्तन्त इति परिहार्यो यावनः पन्थाः । किञ्च प्रत्यक्षलक्ष्या नक्षत्रगतिस्तदाधारभूतानामाकाशानामिति कल्पनायां गौरव मेव । अाधाराणां योऽचलत्वलक्षणगुणः स एव ग्रहेष्वेव लाघवात् कल्पयितुं युज्यते । भूमेर्वा, ईदृशी शक्तिरस्ति चुम्बकवल्लोहमणिवन्नक्षत्रग्रहाः समन्तात्तिष्ठन्ति । ध्रुवयोर्चुम्बकवच्छत्तिर्वा यद्ग्रहनक्षत्रजातमन्तरिक्ष एव लोहमणिवदवतिष्ठेदिति शक्तिकल्पनारुचिश्चेदेवमेव कल्प्यताम् । सजीवाकाशकल्पना जघन्या नितरां गौरवादित्यास्तां तावत् । आर्यभट्टन यद्भूभ्रमणमभ्युपगतं तत्र वराहोक्तोऽयं दोषः । यद्यवं १४ श्येनाद्या न खात् स्वनिलयमुपेयु:। भूमेस्तु वेगज्जृनितेन समीरणेन केत्वादयोप्युपरदिग्गतयः सदास्युरिति_ योदि तु भूमेराकर्षणशक्तिरीदृशी कल्प्यते *"तस्माद्भूभागाच्छरादिकमुपरि माद ग पु० । २. कलाम ग पु० । ३. दूर गच्छति ग पु० । अयमंशो ग पु० नावलोक्यते । ५. अस्मान्भते ग पु० । ६. वाद्यधार ग पु० । यथानेन क पु० । ८. तीर्यक्र ग पु० । ९. वृद्धवसिष्ठसि० १ अ० १२ श्लो० । ०. प्यधा गपु० ॥ ११. अक्लुस क ख गपु० ॥ १२. मन्यादि गपु० १३.स्वक्छत्वं क ख गपु० । .. पञ्चसिद्धान्तिकायां पैतामहसिद्धान्ते १३ अ० ६ श्लो० ।। १५. यस्माद् ग पु० ।। Υ