पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/93

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
सिद्धान्तशिरोमणी ग्रहगणिते

विरुद्धदिग्जनितग्रहगतिमन्तरेणानुपपद्यमानं' स्वशक्त्या ग्रहस्य पूर्वगतिं कल्पयन्तीत्याहुः । तस्मान्मतत्रयमपि युक्तियुक्तम् ॥

 ननु वस्तुनिविकल्पासंभवात् कर्थ परस्परविरुद्धस्य गतिकारणप्रतिपादकशास्त्रस्य *प्रामाण्यम् । उच्यते । ग्रहगतिप्रतिपादकं शास्त्रं तावत्प्रमाणं गतेः प्रत्यक्षोपलब्धत्वात् । तत्कारणं पुरुषबुद्धिप्रभवत्वाद 3[ तात्विक भवतु] तथाऽपि न कोऽपि दोषः फलतो दोषाभावात्। तत्वज्ञानोपयोगिन्या: जीवेश्वरादिविभागकल्पनाया अपि पुरुषबुद्धिप्रभवत्वेन विकल्पस्य दृष्टत्वात् । गतिर्नाम प्रदेशान्तरसञ्चरण ग्रहाणां तच्च शुभाशुभव्यञ्जकं दिग्देशकालज्ञानोपयोगि च । काले* दिशि देशे च कर्म विधीयत इति ग्रहस्य प्रदेशान्तरसच्चारज्ञानं प्रधानं फलवत्वात्। गतिकारणकल्पना तु पुरुषबुद्धिप्रभवापि सौरादिशास्त्रेणानूद्यते गतिज्ञानोपयोगित्वात् फलवत्सन्निधावफल तदङ्गमिति न्यायात् । यथा कल्पनया शिष्यजनमनः समाधानं स्यात्तथा। क्रियमाणायामपि कल्पनायां न कश्चिद्दोषः। अत एव स्थूलवर्तुलदृषत्परिग्रहादिना वर्णावर्गात कुर्वाणा बहवो दृश्यन्ते ।

 तथा चाह ब्रह्मगुप्तभाष्यकारश्चतुर्वेदाचार्यः ।

 यथा वैय्याकरणा: प्रकृतिप्रत्ययागमलोपविकारैरसत्यरूपै: सत्यं शब्दसाधुत्वं प्रतिपद्यन्ते |

 यथा’ च भिषग्वारा उत्पलनालादिभिः६ शिरावेधादीन् प्रतिपद्यन्ते तथैव साम्वत्सराः पलावलम्बमन्दशीघ्रप्रतिमण्डलादिभिर्ग्रहगतितत्त्वं भूमानादितत्त्वञ्च प्रतिपद्यन्त इति मत्वा सन्तोष्टव्यमिति ।

 इति भणणोपपत्तिः ॥१-६॥

 अथ भभ्रमानाह

 `खखेषुवेदषड्गुणाकृतीभभूतभूमयः ।

 शताहता १९८२२३६४९० ००० भपश्चिमभ्रमा भवन्ति काहनि ।।७।।

 बा० भा०-कानि ब्रह्मदिन एतावन्तो भानां पश्चिमभ्रमा भवन्ति ।

 अत्रोपपतिगले 'समं भसूर्याबुदितौ '-इत्यादिना कथिता व्याख्याता च । ७॥

 वा० वा०-भभ्रमानाह। खखेषुवेदषड्गुणा इति ।

 अत्र कस्य ब्रह्मणोऽहः काहः । ‘राजाहः सखिभ्यष्टच् ।' तस्मिन् काहे सप्तम्येकवचने° वक्तव्ये यत्काहनीत्युक्तं वैभवेन तदयुक्तमिव प्रतिभाति । यद्वा कल्पप्रमाणकमहः काहः


१. मान क ख ग० पु० ।   २. प्रमाण्यं ग पु० ।
३. अयमंशो ग पु० न दृश्यते।  ४. कालो ग पु० ।
५. तथा च ग पृ० ।    ६. उत्पलादिभि ग पु० ।
७. अत्र श्रीपतिः ‘भूतवेदरसरामयमाश्विव्यालवाणशशिनोऽयुतनिघ्नाः १५८२२३६४५०० ०० ज्योतिषामपरया खलु गत्या गच्छतां विधिदिने परिवत्तः' सि० शे० १ अ० ३२ श्लो० ॥
८. सप्तम्योक ग पु० ।