पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/88

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे भगणाध्यायः *াই । अचलानि भानि तद्वत्समपश्चिमगानि लङ्कायाम् इति स्पष्टगतावपि किञ्चित्कारणेन भाव्यम् । मध्यग्रहस्य स्पष्टग्रहसाम्यत्वादर्शनात् । न च स्पष्टग्रहस्वरूपादन्यन्मध्यग्रह'स्वरूपमाकाशेऽस्तीति वाच्यम् । अनुपलम्भात् । स्पष्टसूर्यस्वरूपादन्यन्मध्यमसूर्यबिम्बमाकाशे यद्यभविष्यत् तहि तदप्युपलभ्येत । कादाचित्कस्याप्युपलम्भस्याभावान्नास्त्येव । अथ वक्तव्यं यस्मिन् वृत्ते ग्रहो भ्रमति यस्मिश्च वृत्तान्तरे विलोक्यते तद् वृत्तयोरेकस्यापि ग्रहबिम्बस्य मेषादेः सकाशाद्भिन्नप्रदेशयोदृष्टत्वान्मध्यस्पष्टभेदो घटत इति । तद्यदि द्वयोर्वृत्तयोर्मध्यं भूगर्भ एव स्वीक्रियते तदा मध्यस्पष्टयोः कलाद्यमन्तरं न स्यात् । एकत्र वृत्ते महत्य: कला अन्यत्र लध्व्य इति मेषादे: सकाशाद्यासु कलासु महति वृत्ते पारमार्थिको ग्रहस्तास्वेव लघुवृत्तेऽपि स्यात् । दृश्यते च मध्यग्रहातू स्पष्टग्रहभिन्नत्वं कलाद्यवयवेन । तस्मात्कलाद्यवयवान्तरान्यथाऽनुपपत्या यस्मिन्वृत्ते पारमार्थिको ग्रहो भ्रमति तस्य मध्यं भूगर्भे नास्तीति कल्प्यते । कक्षामण्डलमध्यस्तु भूगर्भ एवेति भूस्थो द्रष्टा भवलयान्तः समन्तात् समान्तरेणावस्थिते स्वकक्षामण्डले ग्रहं पश्यति । चक्रयन्त्रवेधेन नक्षत्रग्रहयोरन्तरं लवादि यदुपलभ्यते तत् खलु नक्षत्रकक्षास्थनक्षत्रं प्रति भूगर्भात्रीयमानसूत्रस्य ग्रहकक्षायां यः सम्पातस्तस्य भूगर्भात्प्रतिमण्डस्थग्रहं प्रति२.नीयमानकर्णसूत्रस्य कक्षायां यः सम्पातस्तस्य चान्तरमिदमिति कक्षामण्डल एव ग्रहमानमुच्यते। प्रतिमण्डलस्थग्रहस्य *[ग्रहकक्षास्थ-] नक्षत्रसूत्रस्यान्तरज्ञानं ४दुर्बोधमिति न प्रतिमण्डले द्रष्टा ग्रहं पश्यतीत्याशयः । स्पष्टगतिवासनायामाचार्योऽपि वक्ष्यति । ‘भूमेर्मध्यं खलु' भवलयस्यापि मध्यं यतः स्याद्यस्मिन् वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्ये । भूस्थो द्रष्टा न हि भवलये मध्यतुल्यं प्रपश्येत् तस्मात् तज्ज्ञैः क्रियत इति तद्दोः फलं मध्यखेटे६ । इति । यो मध्यमो भौमादिको ग्रहः स तु मन्दप्रतिमण्डले भ्रमति । भूगर्भात् त्रिज्याव्यासाद्र्धेन कृतं यद्वृत्तं तत् कक्षावृत्तम् । तस्योर्ध्वाधररेखायामन्त्यफलज्याग्रे यत् त्रिज्यया° कृतं वृत्तं तत् प्रतिमण्डलम् । तदपि मन्दशीघ्रभेदेन द्विविधम् । तत्र मन्दप्रतिमण्डले तुङ्गदेशान्मेषादिर्मन्दोच्चभुक्त्या प्रत्यहं पृष्ठ*तो गच्छत । तस्मान्मेषादेरनुलोमं मध्यगत्या मध्यमी भ्रमति । स मध्यमः कर्णगत्या यत्र कक्षावृत्ते दृश्यते तत्र १. सूर्य बिम्ब. ग. पु० । २. नियमा० ग पु० । ३. अयमंशो ग पु० नास्ति । ४. दूवोध ग पु० । ५. मध्यं क ख पु० । ६. सि० शि० गो० ज्यो० ७ श्लो० । ७. त्रिज्याया क ख पु० । ८. पृछतो ग पु० ।