पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/87

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

YR सिद्धान्तशिरोमणी ग्रहगणिते मायां नित्यमस्तमनदर्शनात् पश्चिमगतौ किञ्चित् कारणेन भाव्यम् । अश्विनीस्थस्य ग्रहस्य भरण्यादि संयोगदर्शनाद्ग्रहाणां पूर्वगतिरप्यस्ति' । तत्रापि कारणेन भाव्यमिति कारणानि कल्पयन्ति । तत्र यवन:- ग्रहाणां *सप्ताकाशास्तदुपरि भचक्राकाशस्तदुपर्यप्याकाशोऽस्ति । स च नाक्षत्रघटीषष्टयो नियतपश्चिमगत्यैकवारं भ्रमति । तद्भ्रमणेनैव परवशाः । शन्यादिकक्षास्थानीयाः सजीवाः सावयवाः परस्परसंलग्ना आकाशाः पश्चिमाभिमुखं परिभ्रमन्ति । शन्याद्याकाशास्तु स्वशक्त्या पूर्वस्यां यान्ति । तत्र भचक्रादप्यूध्वंगस्याकाशस्य जवेन स्वशक्त्या पूर्वाभिमुखं गच्छत आघातेन तदन्तर्गतभचक्राकाशादयोऽपि पराशाभिमुखं गच्छन्तीति भावः । प्रवाहप्रातिलोम्येन गच्छन्तोऽपि पुरुषाः नदीप्रवाहदिश्येव यान्ति तद्वदित्यर्थ: । काचविमलमणिवनिर्मले सचेतने सावयवे भूताद्यावेशवति स्वस्वाकाशोऽधिष्ठिता नक्षत्रग्रहा भूपृष्ठस्थैः सम्यगेव दृश्यन्ते । यथा रत्नघटमध्यस्थोऽपि दीपः प्रतिबन्धे दूरस्थैर्यथावस्थित एवावलोक्यते । खस्था गोलाकारा विशिष्टशक्तिमन्तो भूमिवन्निराधारा जीवविशेषा एवाकाशशब्देनोच्यन्ते । तैराकाशैरेव मण्यादिवत्स्वाधिष्ठितो निर्गतिकोऽपि3 ग्रह इतस्ततो नीयते। आकाशगतिरेव तत्स्थग्रहगतिरिति लोकैरुपचयंते । कदलीपुष्पपुष्टवच्च तेषामाकाशानां संलग्नतेत्याहुः । एतान्याकाशानि मध्यकक्षास्थानीयानि । ईदृशमध्यकक्षापरिधौ अनवरतं मन्दनीचोच्चवृतमध्यो भ्रमति । परं मध्यगत्या मन्दनीचीच्चवृत्तपरिधौ चोच्चप्रदेशान्मन्दकेन्द्रगत्या ग्रहो भ्रमति रविशचन्द्रशच्च । भौमाद्यास्तु मन्दनीचोच्चवृत्तपरिधावप्प्यनवरतं भ्रमणशीलस्य शीघ्रनीचोच्चवृत्तमध्यस्य मन्दस्पष्टगत्या गच्छतः परिधौ स्वस्वशीघ्रकेन्द्रगत्या ४चलतुङ्गाद् भ्रमन्ति । तुङ्गप्रदेशो नाम भूगर्भाद्रतरप्रदेशः स्वस्वनीचोच्चवृत्ते । नीचोच्चवृत्तं नामान्त्यफलज्यया कृतं वृतम् । नीचोच्चवृत्तान्यपि गोलाकारा जीवविशेषा एवेत्याहुः । आर्यभट्टास्तु ग्रहाः पूर्वस्यां यान्ति । नक्षत्राणि तु स्थिराण्येव । भूरेव नाक्षत्रदिनमध्ये पूर्वाभिमुखमेकवारं भ्रमति तेनैव नक्षत्रग्रहाणामुदयास्तौ पूर्वपश्चिमयोर्घटतः । प्रवहानिलकल्पना व्यर्था । तथा च वृद्धार्यः । 'अनुलोमगतिनाँस्थः पश्यत्यचलं विलोमगं यद्वत् ॥६' १. रथस्ति ग पु० । २. शसाका ग० पु० । ३- तिगति ग० पु० । ४. वलतु’ग पु० । ५. मगत क ख ग पु० । ६. आo म० ४ पा० १० २लीo ।