पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/86

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमधिकारे कालमानाध्यायः Y8 तया मध्यमगत्या कल्पादितो मध्यमज्ञानम् । तस्य मध्यमस्य मन्दस्पष्टस्य यदन्तरं तन्मन्दफल तदपि परमं ज्ञात्वा प्रात्यहिकमन्दफलसाधनं च सुगमम्। 'बुधशुक्रयोस्तु परमाधिकपरमाल्पशीघ्रकर्णावगतशीघ्रोच्चगतितोऽभोष्टशीघ्रोच्चं ज्ञेयम् । शराभावे शीघ्रोच्चं चक्रशुद्धं पातः स्यातू । वेधसिद्धेष्टशरावगतभौमादिसपातमन्दस्पष्टधनुर्वत् सिद्धे धनुषि शीघ्रोच्चपातौ संस्कार्यम् । बुधशुक्रयोर्मन्दफलं सुधिया वेद्यम् । इदं मनसि सम्प्रधार्य 'स्फुटग्रहं मध्यखगं प्रकल्प्ष्य' इति ग्रहमध्यगतिज्ञानमुक्त भाष्यकृता। स्पष्ट विलोममन्दफलसंस्कारेण शीघ्रोच्चज्ञानमुतम्। विलोमशीघ्रफलसंस्कृतस्पष्टान्मन्दोच्चज्ञानमुक्तम्' । इतरेतराश्रपदोषस्तु दोषाभास इति प्रागप्यभिहितमिति ध्येयम् । यद्वा युगपदेव कूपोद्धृतपुरुषवन्मन्दोच्चशीघ्रोच्चग्रहभगणानभिज्ञस्तं3 प्रति भगणज्ञानमाचार्येण नोपपाद्यते । किन्तु मन्दोच्चभगणग्रहभगणाभिज्ञं प्रति चलोच्चभगणज्ञानम् । चलोच्चभगणग्रहभगणज्ञानाभिज्ञं प्रति मन्दोच्चभगणज्ञानम् । मन्दोच्चभगणाचलोच्चभगणज्ञानं ( चणं* ) ( वा क्षणं ? ) प्रति मध्यग्रहज्ञानोपायः प्रतिपाद्यत इति न किञ्चिद्विरुद्धम्। यतु पूर्वमुक्त यत्र परमश्चलकर्णस्तत्र यावान् ग्रहस्तावदुच्चम् । परमकर्णत्रिज्ययोश्चान्तरमन्त्यफलज्येति । तत्र परमाल्पकणें नीचतुल्यत्वम्। ततोऽन्त्यफलज्याज्ञानमिति योज्यम् । यस्माच्छीघ्रोच्चतुल्ये किल परमकर्णस्तत्र ताराग्रहाणामस्तजुङ्गतत्वात् तेषां छायोपलम्भासम्भवः । कथं पुनर्मन्दस्पष्टतुल्ये शीघ्रोच्चेऽस्तमयः । उच्यते। कुजगुरुशनीनां "मध्यमार्कश्चलोच्चम्। यदा च स्पष्टग्रहाकविवरं स्वस्वकालांशाल्पं तदाऽस्तमनम्। तत्र शीघ्रोच्चतुल्ये मन्दस्पष्टे मन्दस्पष्टग्रहस्पष्टार्कयोरन्तरं परमं परमार्कमन्दफलतुल्यमेव स्यात्। ननु बुधशुक्रयोः शीघ्रनीचतुल्यत्वे मन्दस्पष्टस्यैव स्पष्टत्वान्मंध्यमयोश्च तयोर्मध्यमार्कतुल्यत्वादस्तमयो दुनिवारः स्यात् । तत्रोच्यते । यदा च मध्यमयोस्तुल्यत्वेन शुक्रार्कयोः स्पष्टयोरपि कदाचित्तुल्यता स्यात्तदा विम्बैक्यार्धाच्छरस्य ६ न्यूनतायां जातायां रवेरधः स्थितत्वेन परमास्तकाले बुधशुक्रयोरादशदिौ दर्शनं भविष्यतीति न किञ्चिद्वाधकम् । ननु को नाम मध्यः कश्च मन्दस्पष्टः किञ्च तयोः स्पष्टादन्यथात्वे कारणम् । यद्यतात्विकता तयोस्तह्यलं तच्चिन्तया ॥ अतात्विकसाधितस्य कथं याथाथ्यमिति चेत् । उच्यते । श्रूयतामवधानेन । नक्षत्राणां ग्रहाणाञ्च पूर्वस्यामुदयदर्शनात् पश्चि १- व शुक्र’इति क ग पु० । २. मन्दाच्च ख पु० । रे महमगणभिज्ञः, क पु० पा० । ४. इति क ख ग पु० । ५. मध्यमार्क एव चलोच्चमिति पाठः साधु प्रतिभाति । ६. द्वद्दरस्य ग पु० द्धक्षरस्य क ख पु० । fo--