पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/89

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

YY सिद्धान्तशिरोमणौ ग्रहणणिते कक्षावृत्ते मन्दस्पष्टः । चन्द्रकक्षावलया'द्बुधकक्षावलयं महत् । कक्षयोरूध्र्वाधरान्तरेण बह्वन्तरितत्वात्। इदं कक्षावलयं शीघ्रकर्मणि मन्दकम्मणि चैकमेव त्रिज्ययोरेकत्वात्। मन्दकर्मणि तु द्वितीयमपि कक्षावलयं स्वीक्रियते । मन्दफलानयने कर्णानुपातस्याकृतत्वात्। भूगर्भान्मध्यकर्णतुल्यव्यासाद्र्धन यद्वृत्तमुत्पद्यते तत् किल द्वितीयं कक्षावलयम्। इदं प्रतिक्षणं चलं मन्दकर्णस्य चलत्वात् । अस्य कक्षावलयस्य मन्दप्रतिमण्डलस्य योगे सर्वदा मध्यमो ग्रहो भ्रमति । द्वयोः कक्षावलययोर्मेषादिचिह्नमेकत्रैव भवति वृतमध्यस्यैक्यात् । तस्माद्वितीयकक्षावृत्तमेषादेयंस्मिन् राश्याद्यवयवे ग्रहुस्तस्मिज्ञेव प्रथमेऽपि कक्षावलये भवितुर्महति । प्रतिमण्डलस्थमेषादिस्तु कक्षा3मण्डस्थमेषादेरग्रतः पृष्ठतो वा भवति। तस्माद् द्वितीयकक्षावलयप्रतिमण्डलयोगस्थग्रह प्रति *भूगर्भानीयमानं यत्सूत्रं तदवधिक' द्वितीयकक्षावृत्तस्थमेषादिचिह्माद्याः कलास्ता एव स्पष्टग्रहलिप्ताः । यास्तु प्रतिमण्डस्थमेषादेर्गण्यन्ते ता एव मध्यकलाः ६ कर्णानुपातं विनैव सिध्यन्ति । अत एव कल्प्यते द्वितीयकक्षावलयमन्दप्रतिमण्डलयोग एव मध्यमो भ्रमति तत्रैव स्पष्टोऽप्यवलोक्यते । तद्वृत्तयोर्मेषादिचिह्नस्यैव भिन्नत्वेन मध्यस्पष्टयोरंशाद्यवयवेनैव भेदः ॥ स्थानभेदस्तु नास्त्येव । यतो यावती मन्दप्रतिमण्डले ग्रहोच्चान्तरदोज्या तावत्येव द्वितीयकक्षावलयेऽपि भवति । प्रथमकक्षावृत्तं मन्दकर्णानयनार्थमुपयुज्यते । एवं यः सिद्धो मन्दस्पष्टः स शीघ्रप्रतिमण्डले तत्स्थमेषादेरनुलोमं भ्रमति । परन्तु मन्दस्पष्टगत्या प्रतिक्षणविलक्षणया तत्परिधौ गच्छतीति कल्प्यते । फलान्तरस्य दर्शनात् । यदि सूर्यचन्द्रयोरिवैकमेव फल भविष्यत् तदा मन्दप्रतिमण्डल एव गमनमभविष्यत् । वस्तुतस्तु `°भौमाद्या मन्दस्पष्टगत्यैव वास्तवे शीघ्रप्रतिमण्डलएव <भ्रमन्ति । शररूप । दक्षिणोत्तरगतिरुच्चादिस्थितिरपि शीघ्रप्रतिमण्डलस्थस्यैव ग्रहस्य दृश्यत इति । तस्य वास्तवत्वमुच्यते । तस्य यन्मन्दप्रतिमण्डले भ्रमणं तदवास्तवमपि मन्दफलानयनार्थत्वेनैव यथा कथञ्चित् कल्प्यते । तस्माद् भूगर्भाच्छीघ्रप्रतिमण्डस्थमन्दस्पष्टग्रह प्रति 'नीयमानं कर्णसूत्र यत्र त्रिज्याव्यासार्धांत्थ°वृत्ते कक्षाख्ये यत्र लगति तत्प्रदेशस्य कक्षास्थमेषादेर्यदन्तरं ताः स्पष्टग्रहकलाः । 'आसां शीघ्रप्रतिमण्डस्थमन्दस्पष्टकलानामन्तरं शीघ्रफलम्।।१२।। अत्र शीघ्रकर्णाग्रे मन्दस्पष्टः । स्पष्टस्तु कर्णसूत्रसक्त कक्षावृत्ते । शीघ्रफलानयने कर्णानुनुपातस्य'3 दृष्टत्वात्। कक्षावलयप्रतिमण्डलयो**ग्रीहोच्चान्तरदोज्या भिन्नत्वात्। १. द्वध ग पु० ॥ २. कृत्वा ग पु० । ३. मडस्थे ग पु० । ४. तीपमा० ग पु० । ५. धिका क ख गु० पु० । ६. फल ग पु० । ७. माद्यो क ख ग पु० । ८. भ्रमति क ख ग पु । ९. नियमा ग पु० । १०. त्द्द क ख, स्द्दात्द्दवू० ग पु० च । ११. आशां क ख० पु० । १२ शीघ्रकालमिति ग पु० । १३. पातस्पष्टत्वात् ग पु० । १४. प्योर्यग्रहो ग पृ० ।