पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/77

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ सिद्धान्तशिरोमणी ग्रहगणिते तथैवोच्चस्थानं ज्ञेयम् ॥ तच्च पूर्वस्थानादग्रत एव भवति । यत्तयोरन्तरं तज्ज्ञात्वाऽनुपातः क्रियते ॥ यद्यतावद्भिरन्तरदिनैरिदमुच्चयोरन्तरं लभ्यते तदैकेन किमिति ॥ फलं तुङ्गगतिः ॥ तयाऽनुपातात् कल्पभगणाः । अथ चन्द्रपातभगणोपपत्तिः ॥ एवं प्रत्यहं चन्द्रवेधाद्दक्षिणविक्षेपे क्षीयमाणे यस्मिन् दिने विक्षेपाभावो दृष्टः क्रान्तिवृत्ते तत् स्थानं चिह्नयित्वा तत्र यावान् विधुः स भगणाच्छुद्धः पातः स्यादिति ज्ञेयम् ॥ पुनरन्यस्मिन्नपि पर्यये दक्षिणविक्षेपाभावस्थानं ज्ञेयम् ॥ क्रान्तिवृत्ते तत् स्थानं पूर्वस्थानात् पश्चिम एव भवति । अतो ज्ञाता पातस्य विलोमा गतिः ॥ सा चानुपातात् ॥ यद्यतत्कालान्तरदिनैरेतावत् पातयोरन्तरं लभ्यते तदैकेन किमिति ॥ फलं पातगतिः ॥ तया प्राग्वत् দলনায়াঃ । अथ रवितुङ्गोपपत्तिः । मिथुनस्थे रवौ कस्मिश्चिद्दिने रेवतीतारकोदयाद्यावतीभिर्घटिकाभीरविरुदितस्तावतीभिर्मीनान्ताल्लग्नं साध्यम् यल्लग्नं स तदा स्फुटो रविज्ञेयः । एवमन्यस्मिन् दिनेऽपि तयोः स्फुटार्कयोरन्तरं गतिः ॥ एवं प्रत्यहं स्फुटगतयो ज्ञातश्याः ॥ यस्मिन् दिने गतेः परमाल्पत्वं तद्दिने यावान् रविस्तावदेव रवेरुच्चं भवति । तस्योच्चस्य चलनं वर्षशतेनापि नोपलक्ष्यतें । किन्त्वाचायैश्चन्द्रमन्दोच्चवदनुमानात् कल्पिता गतिः ॥ सा चैवम् । यैर्भगणैः साम्प्रताहर्गणाद्वर्षगणाद्वा एतावदुच्चं भवति ते भगणा युक्त्या कुट्टकेन वा कल्पिताः' ॥ १. अत्र शास्त्रिवापूदेवेन रविमन्दोच्चस्य स्वल्पान्तरादष्टाद्रिभागमितस्योपलब्धौ कुट्टकयुक्त्या यद्धगणानयन कृत तत् प्रदश्यते। तथा हि ससाष्टात्यष्टिमिते शालिवाहनशके कल्पगतिवर्षगणः १९७२९४८९६६ अथ रविमन्दोच्चकल्पभगणप्रमाणं यावत्तावत् । अस्मिन् गतवर्षगुणिते कल्पवर्षभक्त गतमन्दोच्चभगणा लभ्यन्ते तत्प्रमाणं कालक । एतद्गुणितेषु कल्पवर्षेषु यावत्तावद्गुणितगतवर्षेभ्यः शोधितेषु सिद्धं मगणशेषम् =या १९७२९४८९६६ का ४३२००००००० इदं चक्रांशैः ३६० सङ्गुण्य कल्पवर्षेविभज्य लब्धमष्टाद्रिभिः समं कृत्वा छेदगमश्च विधाय नखनगरपवर्तिती जाती या ९८६४७४४८३ का २-१६०० ००००० = & Yeo ooooo समशोधनेन जाती या ९ - ६४७४४८३ रू ४६८० ०००९० = ФT SR* Ço o o o o o o पुनः पक्षौ युगाभ्रनागषट्पक्षनेत्रयुग्मैः २२२६८०४ स्वल्पान्तरत्वादपवर्तितौ जातौ या ४४३ रू ३० १० = क ९७० अतः कुट्टकाल्लब्धं यावत्तावन्मानम् = ४८० ॥