पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/76

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे भगणाध्यायः ३१ अथ समायां भूमावभीष्टकर्कटकेन त्रिज्यामिताङ्करङ्कितेन वृत्तं दिगङ्कितं भगणांशैश्चाङ्कितं कृत्वा तत्र प्राचीचिह्माद्दक्षिणतो नातिदूरे प्रदेश उत्तरेऽयने वृतमध्यस्थितेन कीलेन रवेरुदयो वेध्यः ॥ · ततोऽन्तरं वर्षमेकं रव्युदया गणनीयाः ॥ ते च पञ्चषष्टयधिकशतत्रय-३१५ तुल्या भवन्ति । तत्रान्तिमोदयः पूव दयस्थानादासन्नो दक्षिणत एव भवति । तयोरन्तरं विगणय्य ग्राह्यम् । ततोऽन्यस्मिन् दिने पुनरुदयो वेध्यः । स तु पूर्वचिह्नादुत्तरत एव भवति । तदप्युत्तरन्तरं ग्राह्यम् । ततोऽनुपातः ॥ यद्यन्तरद्वितयकलाभिरेकीकृताभिः षष्टि-६० घटिका लभ्यन्ते तदा दक्षिणेनान्तरेण किमिति' । अत्र लभ्यन्ते पञ्चदश घटिकास्त्रिशत् पलानि सार्धानि द्वाविशतिविपलनि १५ ॥ ३० ॥ २२ ॥ ३० । अाभिर्घटीभिः सहितानि पञ्चषष्टश्यधिकशतत्रयतुल्यानि सावनदिनान्येकस्मिन् रव्यब्दे भवन्ति ३६५ । १५ ॥ ३० ॥ २२ ॥ ३० । ततोऽनुपातः । यद्येकेन वर्षेणैतावन्ति कुदिनानि तदा कल्पवर्षेः किमिति ॥ एवं ये लभ्यन्ते ते सावनदिवसा भवन्ति कल्पे ॥ अथ तैरेव रवेवर्षान्तः पातिभिः कुदिनैश्चक्रकला लभ्यन्ते तदैकेन किमिति ॥ फलं मध्यमा रविगतिरित्युपपन्नम् ॥ अथ चन्द्रभगणोपपत्तिः ॥ तत्रादौ तावद्ग्रहवेधार्थं गोलबन्धोक्तविधिना विपुलं गोलयन्त्रं कार्यम् ॥ तत्र खगोलस्यान्तर्भगोल अाधारवृत्तद्वयस्योपरि विषुवद्वृत्तम् । तत्र च यथोक्ततं क्रान्तिवृत्तं भगणांशाङ्कितं च बद्ध्वा कदम्बद्वयकीलकयोः प्रोतमन्यञ्चलं ग्रहवेधवलयम् । भगणांशाङ्कितं कार्यम् ॥ ततस्तद्गोलयन्त्रं सम्यग्ध्रुवाभिमुखयष्टिकं जलसमक्षितिजवलयञ्च यथा भवति तथा स्थिरं कृत्वा रात्रौ गोलमध्यचिहुगतया दृष्टया रेवतीतारां विलोक्य क्रान्तिवृत्ते यो मीनान्तस्तं रेवतीतारायां निवेश्य मध्यगयैव दृष्टया चन्द्र' विलोक्य तद्वधवलयं चद्रोपरि निवेश्यम् । एवं कृते सति वेधवृत्तस्य क्रान्तिवृत्तस्य च यः संपातस्तस्य मीनान्तस्य च यावदन्तरं तस्मिन् काले तावान् स्फुटचन्द्रो वेदितव्यः । क्रान्तिवृत्तस्य चन्द्रबिम्बमध्यस्य च वेधवृत्ते यावदन्तरं तावास्तस्य विक्षेपः ॥ ततो यावतीषु रात्रिगतघटिकासु वेधः कृतस्तावतीष्वेव पुर्नाद्वितीयदिने कर्तव्यः ॥ एवं द्वितीयदिने स्फुटचन्द्र' ज्ञात्वा तयोर्यदन्तरं सा तद्दिने स्फुटा गतिः ॥ अथ तौ चन्द्रौ ‘‘स्फुटग्रहं मध्यखगं प्रकल्प्य'-इत्यादिना मध्यमौ कृत्वा तयोरन्तरं सा मध्यमा चन्द्रगतिः । तयाऽनुपातः यद्येकेन दिनेनैतावती चन्द्रगतिस्तदा कुदिनैः किमित्येवं चन्द्रभगणा उत्पद्यन्ते ॥ तथा चाह श्रीमान् ब्रह्मगुप्त:* ।

  • ज्ञातं कृत्वा मध्यं भूयोऽन्यदिने तदन्तरं भुक्तिः ॥ त्रैराशिकेन भुक्त्या कल्पग्रहमण्डलानयनम् ।' । एवमन्येषामपि भगणोपपपत्ति: ।

अथ चन्द्रोच्चस्य ॥ एवं प्रत्यहं चन्द्रवेधं कृत्वा स्फुटगतयो विलोक्याः । यस्मिन् दिने गतेः परमाल्पत्वं दृष्टं तत्र दिने मध्यम एव स्फुटचन्द्रो भवति तदेवोच्चस्थानम् ॥ यत उच्चसमे प्रहे फलाभावो गतेश्च परमाल्पत्वम् । ततश्च तस्मादिनादारभ्यान्यस्मिश्चन्द्रपर्यये प्रत्यहं चद्रवेधात् ۔۔--ــــــــــــــــــــــــــےسس- ------ --Samskritabharatibot (सम्भाषणम्)-- १. अत्र तात्कालिकगतिविवेचनयाऽग्रान्तरानुपातो भास्करीयो युक्तियुक्त इति । २. ब्रा० सि० १९ अ० १२ श्लो० ।