पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/75

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

રેo सिद्धान्तशिरोमणौ ग्रहगणिते द्विनन्दवेदाङ्कगजाग्निलोचनद्विशून्यशैलाः७०२२३८९४९२सितशीघ्रपर्ययाः। भुजङ्गनन्दद्विनगाङ्गबाणषट्कृतेन्दवः१४६५६७२९८सूर्यसुतस्य पर्ययाः॥४॥ खाष्ट्रब्धयो ४८०ऽटाक्षगजेषुदिग्द्विप द्विपाब्धयो ४८८१०९८५८ द्वयङ्कयमा २९२ रदाग्नयः३३२ ।। शरेष्विभा ८५५ स्त्र्यक्षरसाः ६५३ कुसागराः ४१ स्युः पूर्वगत्या तरणेधुंदूच्चजाः ca, गजाष्टिभर्गोंत्रिरदाश्विनः २३२३१११६८ कुक्षु r~a fra द्रसाश्विनः २६७ कुॉद्विशराः ९२१ क्रमत्तवः ६३ ॥ त्रिनन्दनागा ८९३ युगकुञ्जरेषवो ५७४ निशाकराद्व्यस्तगपातपर्ययाः ॥ ६ ॥ वा. भा.-ग्रहाणां पूर्वगत्या गच्छतां कल्प एतावन्तो भगणा भवन्ति । तथा मन्दोच्चानां चलोच्चानाञ्च प्राग्गत्या एतावन्तः पर्यया भवति । तथा पाताना पश्चिमगत्या एतावन्तो भवन्ति । अत्रोपपत्ति: । सा तु तत्तद्भाषाकुशलेन तत्तत्क्षेत्रसंस्थानज्ञेन श्रुतगोलेनैव श्रोतुं शक्यते नान्येन ॥ ग्रहमन्दशीघ्रोच्चपाताः स्वस्वमार्गेषु गच्छन्त एतावतः पर्ययान् कल्पे कुर्वन्तीत्यात्रागम एव प्रमाणम् । स चागमो महता कालेन लेखकाध्यपकाध्येतृदोषेबहुधा जातस्तदा कतमस्य মালাত অন্ম । । अथ यद्येवमुच्यते गणितस्कन्ध उपपत्तिमानेवागमः प्रमाणम् ॥ उपपत्त्या ये सिध्यन्ति भगणास्ते ग्राह्याः । तदपि न । यतोऽतिप्राज्ञेन पुरुषेणोपपत्तिज्ञातुमेव शवयते ॥ न तया तेषां भगणानामियक्ता कुत्तु' श्वयते ॥ पुरुषायुषात्पत्वात् ॥ उपपत्तौ तु ग्रहः प्रत्यहं यन्त्रेण वेध्यः ॥ भगणान्तं याव्त् ॥ एवं शनैश्चरस्य ताव् द्वषणां त्रिशता भगणः पूर्यते ॥ मन्दोच्चानां तु वर्षशतैरनेकैः ॥ अतो नायमर्थः पुरुषसाध्य इति ॥ अत एवातिप्राज्ञा गणकाः साम्प्रतोपलब्ध्यनुसारिण प्रौढगणकस्वीकृत कमप्यागममङ्गीकृत्य ग्रहगणित आत्मनो गणितगोलयोनिरतिशय कौशलं दर्शयितुं तथाऽन्यैभ्रन्तिज्ञानेनान्यथोदितानर्थाँश्च निराकर्तुमन्यान् ग्रन्थान् रचयन्ति । ग्रहगणित इति कर्तव्यतायामस्माभिः कौशलं दर्शनीयं भव्त्वागमो योऽपि कोऽप्ययमाशयस्तेषाम् । यथाऽत्र ग्रन्थे ब्रह्मगुसस्वीकृतागमोऽङ्गीकृत इति ॥ तहि तिष्ठतु तावदुपपत्त्या भगणानामियत्तासाधनम् । अथ यद्युपपत्तिरुच्यते तहि इतरेतराश्रयदोषशङ्कया वक्तुमशक्या । तथापि संक्षिप्तामुपपत्ति वक्ष्यामः ॥ इतरेतराश्रयदोषोऽत्र दोषाभासः ॥ ॐपपत्तिभेदानां यौगपद्येन वक्तुमशक्यत्वात् ॥ अथोच्यते । अर्कशुक्रबुधपर्यया विधेरित्यादि । यावांन्त कल्पे वर्षाणि तावन्त एव सूर्थभगणा इत्युपपन्नम् । यतो भगणभोगकालो हि वर्षमुक्तम् । बुधशुक्रो तु रवेरासन्नावेव कदा चिदग्रतः कदाचित् पृष्ठतस्तस्यानुचराविष्व सदा व्रजन्तौ दृश्येते । अतस्तयोरपि रविभगणतुल्या भगणा' इत्युपपन्नम् ॥ चलोच्चभगणोपपत्तिमग्रे वक्ष्यामः ॥ १. अत्र कस्यचित् पद्यम् । ‘‘शुक्रज्ञौ पृष्ठतश्चाग्रे सदाऽर्कोनुसरौ यतः । ततोऽर्कभगणैस्तुल्याः कल्पे स्युर्भगणास्तयोः ॥'