पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/74

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः 39, र्तुयुगपूर्वकमिति । वर्ष वत्सरः वसतोऽयने यस्मिन् स वत्सरः । यातीत्ययनं राशिषट्केन दक्षिणाशामुतराशां वेति । इयक्ति गच्छत्यसाधारणं लिङ्गमिति ऋतुः ॥ ३०-३१ ॥ इदानी मानोपसंह्रारश्लोकमाह । fa ܕ ܬ ) ܓ ܓܕ ܐ एवं पृथङ्मानवदैवजैवपैत्रार्क्षसौरैन्दवसावनानि । vNA q ब्राह्मश्च काले नवमं प्रमाणं ग्रहास्तु साध्या मनुजैः स्वमानात्'॥३२॥ वा० भा०-एव कालस्य नव मानानि। तत्र ग्रहानयनं मनुष्यमानात्। यतस्ते मनुष्ये: साध्या: ॥ ३२ ul इति श्रीभास्करीये सिद्धान्तशिरोमणौ कालमानाध्यायः ॥ वा० वा०-अथोपसंहरति । एवं पृथक्मानवेति । यद्यपि दैवमासुरङ्च मानं दिवसभेदाभिद्यते तथाप्यहोरात्रैक्यादभेद इति नवैव मानानि स्वीकृतानि । काले कलनात्मके ब्राह्मां नवमं प्रमाणं परिमाणमित्यर्थः । एवं वर्षादिकालस्तत्तन्मानैर्नवधा भिद्यत इति । मनुष्योपयोगित्वाच्छास्त्रस्य यथोपयोगस्तथैव ग्रहा मनुजैर्मनुष्यमानात्साध्याः । चकारोऽनुक्तसमुच्चयार्थस्तेन ग्रहसमवेतानि कर्माण वक्रास्तमनोदयक्रान्तिसाम्यच्छायायुतिग्रहणश्रृङ्गोन्नमनतिथ्यादोनि च साध्यानि ॥ ३२ ॥ इति श्रीकृष्णदैवज्ञात्मजगणकनृसिहकृतौ कालमानाध्यायः । अथेदानीं ग्रहाणां मन्दोच्चानां चलोच्चानां ग्रहपातानाञ्च भगणान् श्लोकषट्केनाह। अकशुक्रबुधपर्यया विधेरह्नि कोटिगुणिता रदाब्धयः ४३२००००००० । एत एव शनिजीवभूभुवां कीर्त्तिताश्च गणकैश्चलोच्चजाः ॥ १ ।। खाभ्रखाभ्रगगनामरेन्द्रियत्माधराद्रिविषया५७७५३३०००००हिमद्युतेः । युग्मयुग्मशरनागलोचनव्यालषण्नवयमाश्विनो२२९६८२८९२२ऽसृजः ॥२॥ सिन्धुसिन्धुरनवाष्टगोऽङ्कषट्त्र्यङ्कसप्तशशिनो १७९३६९९८९८४ज्ञशीघ्रजाः। पञ्चपञ्चयुगषट्कलोचनद्वयब्धिषड्गुणमिता ३६४२२६४९५गुरोर्मताः ॥३॥ sa १. अत्र श्रीपतिः । 'पैतामहं दिव्यमथासुरश्च पैत्रं तथा मानुषमानमन्यत् । सौराक्षहैमांशवसावनानि जैवं तथेद दश कीर्तितानि । सि० शे० १ अ० ४७ श्लो० । सौरचान्द्रमससावनमान: साक्षकैग्रहगतेरवबोध: । एभिरत्र मनुजव्यवहारो दृश्यते च पृथगेव चतुभि:।” सि० शे० १ अ० ४८ श्लो० । २. मानि ख पु० । ३ कालक’ख पु० । Hemk-m